००३ गौः

विश्वास-प्रस्तुतिः - २०११

व्यक्तस्नायुवृतास्थिपञ्जरभरो रोमन्थनिद्रालसः
प्रातर् गोमयलिप्तपुच्छचरणो’प्य् उत्थातुकामः स्वयम् ।
पूर्वव्यूढिविभावनपरिवृढैर् उत्तोलितः स्पन्दते
वृद्धोक्षस् त्रिकभङ्गलब्धरुधिरात् काकाद् भिया विद्रुतः ॥२०११॥

मूलम् - २०११

कस्यचित् ।

विश्वास-प्रस्तुतिः - २०१२

अग्रे वितत्य चरणो विनमय्य कण्ठम्
उत्थाप्य वक्त्रम् अभिहत्य मुहुश् च वत्साः ।
मात्राविवर्तितमुखं मुखलिह्यमान
पश्चार्धसुस्थमनसः स्तनम् उत्पिबन्ति ॥२०१२॥

मूलम् - २०१२

चक्रपाणेः । (सु।र। ११६८)

विश्वास-प्रस्तुतिः - २०१३

तिर्यक्तीक्ष्णविषाणयुग्मचलनव्यानम्रकण्ठाननः
किञ्चित् कुञ्चितलोचनः खुरपुटैर् आचोटयन् भूतलम् ।
निःश्वासैर् अतिसन्ततैर् बुसकणाजालं खले विक्षिपन्न्
उक्षा गोष्ठतटीषु लब्धविजयो गोवृन्दम् आस्कन्दति ॥२०१३॥

मूलम् - २०१३

योगेश्वरस्य । (सु।र। ११८६)

विश्वास-प्रस्तुतिः - २०१४

उपनिहितहलीषासार्गलद्वारम् आरात्
परिचकितपुरन्ध्रीसारिताभ्यर्णभाण्डम् ।
पवनरयतिरश्चीर् वारिधाराः प्रतीच्छन्
विशति वलितशृङ्गः पामरागारम् उक्षा ॥२०१४॥

मूलम् - २०१४

विश्वास-प्रस्तुतिः - २०१५

कर्णाभ्यर्णारिशृङ्गक्षतिरुधिररसास्वादनाबद्धगर्घ
ध्वाङ्क्षच्छायात्तभीतिप्रतिहतधवलीवर्गसंवर्धनेच्छः ।
शीलत्य् आक्रुद्धगोपीलगुडहतिनमत्पृष्ठवंशः कथञ्चित्
प्रातः केदारनीरं कलमदलभिया कृणिताक्षो महोक्षः ॥२०१५॥

मूलम् - २०१५