००१ मनुष्यः

विश्वास-प्रस्तुतिः - २००१

अङ्गुष्ठाग्रिमयन्त्रिताङ्गुलिर् असौ पादार्धनीरुद्धभूर्
पार्श्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान् मुहुः ।
न्यग्जानुद्वयमध्ययन्त्रितघटीवक्त्रान्तरालस्खलद्
धाराध्वानमनोहरं सखि पयो गां दोग्धि दामोदरः ॥२००१॥

मूलम् - २००१

कस्यचित् । (पद्या। २६२; सु।र। ११५७, उपाध्यायदामोदरस्य; सू।मु। ९६।१४)

विश्वास-प्रस्तुतिः - २००२

तैस् तैर् जीवोपहारैर् गिरिकुहरशिलासंश्रयाम् अर्चयित्वा
देवीं कान्तारदुर्गां रुधिरम् उपतरुक्षेत्रपालाय दत्त्वा ।
तुम्बीवीनाविनोदव्यवहितसरकाम् अह्नि जीर्णे पुराणीं
हालां मालूरकोषैर् युवतिसहचरा बर्बराः शीलयन्ति ॥२००२॥

मूलम् - २००२

कस्यचित् । (सु।र। ११९१, योगेश्वरस्य)

विश्वास-प्रस्तुतिः - २००३

एताश् चन्द्रोदये’स्मिन्न् अविरलमुशलोत्क्षेपदोलायमान
स्निग्धश्यामाग्रपीनस्तनकलसनमत्कण्ठनालाग्ररम्याः ।
उद्वेल्लद्बाहुवल्लीप्रचलितवलयश्रेणयः पामराणां
गेहिन्यो दीर्घगीतिध्वनिजनितसुखास् तण्डुलान् कण्डयन्ति ॥२००३॥

मूलम् - २००३

शरणस्य ।

विश्वास-प्रस्तुतिः - २००४

रज्जुक्सेपरयोन्नमद्भुजलताव्यक्तैकपार्श्वस्तनी
सूत्रच्छेदविलोलशङ्खवलयश्रेणीझणत्कारिणी ।
तिर्यग्विस्तृतपीवरोरुयुगला पृष्ठान् अतिव्याकृता
भोगश्रोणिर् उदस्यति प्रतिमुहुः कूपाद् अपः पामरी ॥२००४॥

मूलम् - २००४

तस्यैव । (सु।र। ११५२, कस्यचित्)

विश्वास-प्रस्तुतिः - २००५

एतास् ता दिवसान्तभास्करदृशो धावन्ति पौराङ्गनाः
स्कन्धप्रस्खलदंशुकाञ्चलधृतिव्यासङ्गबद्धादराः ।
प्रातर्यात कृषीवलागमभिया प्रोत्प्लुत्य वर्त्मच्छिदो
हट्टक्रीतपदार्थमूल्यकलनव्यग्राङ्गुलिग्रन्थयः ॥२००५॥

मूलम् - २००५

तस्यैव ।