२२शुष्कसरः

विश्वास-प्रस्तुतिः - १७४६

निःसारिते’म्भसि कृषीबलमण्डलेन
कोलव्रजैः कवलितासु मृणालिकासु ।
तीरद्रुमे दवहते’द्य सखे’ध्वनीन
शोकाय केवलम् अलोकि सरस् त्वयेदम् ॥१७४६॥

मूलम् - १७४६

निःसारिते’म्भसि कृषीबलमण्डलेन
कोलव्रजैः कवलितासु मृणालिकासु ।
तीरद्रुमे दवहते’द्य सखे’ध्वनीन
शोकाय केवलम् अलोकि सरस् त्वयेदम् ॥१७४६॥

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - १७४७

कासारे मदमत्तवारणगणैर् आकुम्भमग्नं पयः
पीतं यत् प्रभवोरुवीचिवलनैर् व्याप्तं समस्तं जगत् ।
तस्मिन्न् एव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि
प्राप्ताः पान्थनखम्पचाः प्रतिपदं मध्यस्थलीभूमयः ॥१७४७॥

मूलम् - १७४७

कासारे मदमत्तवारणगणैर् आकुम्भमग्नं पयः
पीतं यत् प्रभवोरुवीचिवलनैर् व्याप्तं समस्तं जगत् ।
तस्मिन्न् एव रवेः प्रचण्डकिरणश्रेणीनिपीताम्भसि
प्राप्ताः पान्थनखम्पचाः प्रतिपदं मध्यस्थलीभूमयः ॥१७४७॥

माधवस्य ।

विश्वास-प्रस्तुतिः - १७४८

स्थलं पाशैर् व्याप्तं प्रबलपवनैर् अम्बुजवनं
जलं क्षीणप्रायं विवरशरणं च्âण्डजकुलम् ।
इदानीम् एतस्मिन् सरसि चिरसेवाप्रणयिनां
विहङ्गानां भावी स खलु पुटपाकव्यतिकरः ॥१७४८॥

मूलम् - १७४८

स्थलं पाशैर् व्याप्तं प्रबलपवनैर् अम्बुजवनं
जलं क्षीणप्रायं विवरशरणं च्âण्डजकुलम् ।
इदानीम् एतस्मिन् सरसि चिरसेवाप्रणयिनां
विहङ्गानां भावी स खलु पुटपाकव्यतिकरः ॥१७४८॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १७४९

वातैः शीकरवर्षिभिः श्रुतिसुखैर् हंसावलीनिस्वनैर्
उन्निद्रैः कमलैः पयोभिर् अमलैर् नीत्वा परां निर्वृतिम् ।
पश्चात् क्षीणधनां वहन् निजतनुं धन्यो मृणालीच्छलाद्
अर्थिभ्यः प्रददौ नवेन्दुविशदान्य् अस्थीनि पद्माकरः ॥१७४९॥

मूलम् - १७४९

भव्यस्य । (सु।र। १६५७, कस्यचित्)

विश्वास-प्रस्तुतिः - १७५०

मदोष्णप्रागल्भ्याद् वनकरिघटा यत्र विमले
ममज्जुर् निःशङ्कं तटनिकट एवोन्नतकराः ।
गते शोषं दैवाद् वरसरसि तत्रैव तरला
बकग्रासत्रासाद् विशति शफरी पङ्कम् अधुना ॥१७५०॥

मूलम् - १७५०

मदोष्णप्रागल्भ्याद् वनकरिघटा यत्र विमले
ममज्जुर् निःशङ्कं तटनिकट एवोन्नतकराः ।
गते शोषं दैवाद् वरसरसि तत्रैव तरला
बकग्रासत्रासाद् विशति शफरी पङ्कम् अधुना ॥१७५०॥

मधुरशीलस्य । (सु।र। १०४३, कस्यचित्)