विश्वास-प्रस्तुतिः - १९९६
भ्रातः पश्य निकृत्य चन्दनतरूच्छाकोटको रोप्यते
सारासारविचारिणी मतिर् इह ग्रामे जनानां कुतः ।
तद् यावद् वयम् अस्य सेकसलिलं वोढुं न मृष्यामहे
तावत् सत्वरम् एव पामरजन ग्रामाद् इतो गम्यताम् ॥१९९६॥
मूलम् - १९९६

कस्यचित् ।
विश्वास-प्रस्तुतिः - १९९७
दन्तैर् उपतितं स्फुरन्ति वलयो निष्कालिमानः कचाः
शीर्णदेहम् अपेतम् एव करणग्रामेण लुप्ता मतिः ।
अस्मिन्न् अप्रतिकारदारुणजराव्याधौ दयार्द्रात्मना
भ्रातर् वैद्य विधीयते तव कियद् यावन् मया भेषजम् ॥१९९७॥
मूलम् - १९९७

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - १९९८
पन्थाः प्रज्वलितः स्फुरन्ति पुरतः क्रूराः कृशानुत्विषः
कान्तारद्रुमघर्मदीधितिर् अपि व्योमार्धम् आरोहति ।
अस्माभिः श्रमविह्वलैर् इह तरुच्छायासमालम्बिभिर्
न ज्ञाताः परितः किरातशिविरव्याप्ता वनश्रेणयः ॥१९९८॥
मूलम् - १९९८

तीरभुक्तीयसर्वेश्वरस्य ।
विश्वास-प्रस्तुतिः - १९९९
तद्ब्रह्माण्डम् इह क्वचित् क्वचिद् अपि क्षोणी क्वचिन् नीरदास्
ते द्वीपान्तरशालिनो जलधयः क्वापि क्वचित् पर्वताः ।
आश्चर्यं गगनस्य को’पि महिमा सर्वैर् अमीभिः स्थितैर्
दूरे पूरणम् अस्य शून्यम् इति यन्नामापि नाच्छादितम् ॥१९९९॥
मूलम् - १९९९

केशरस्य । (सु।र। ११९३)
विश्वास-प्रस्तुतिः - २०००
समालम्ब्यान्योन्यं मसृणचरणाः कम्पनजुषो
न याताः के पारं सति जलधिबन्धे कपिभटाः ।
तटाद् एको’र्वाचश् चकितसुरसिद्धस्थितिसमुत्
समुत्प्लुत्य प्रायात् परमपरपारं स हनुमान् ॥२०००॥
मूलम् - २०००

छित्तिपस्य ।
विश्वास-प्रस्तुतिः
श्रीधरदासकृते’स्मिन् सदुक्तिकर्णामृते चतुर्थो’यम् ।
सत्कर्मण्य् अपदेशप्रवाह उपदेशतां भजतु ॥
मूलम्

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।
अपदेशप्रवाहो नाम चतुर्थः । वीचयः ७२ । श्लोकाः ३६० ॥
ओ)०(ओ
सदुक्तिकर्णामृतम्