विश्वास-प्रस्तुतिः - १९९१
स्वामिन् खञ्जन मुञ्च मुञ्च फनभृद्भोगाधिरोहग्रहं
तद् विश्राम्यतु नः फलं किम् अपि यद् वन्द्येन देयं त्वया ।
दैवाद् एष यदि प्रदीप्तगरलस् त्वां दन्दशूको दशेद्
विश्वालोककरी तदा शरद् इयं स्याद् एव दृग्वञ्चिता ॥१९९१॥
मूलम् - १९९१

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - १९९२
आजन्मैव तमः सुहृत्कुटिलता वक्त्रे गिरां निर्गमो
ग्रामोत्साद् अकरः श्मशानविटपी प्रायेण यस्याश्रयः ।
धिग् धातः ससृजे स एव मलिनः क्रूरः कथं कौशिकः
सृष्टो वा किम् अकल्प्यतास्य भवता कल्पान्तम् आयुः स्थिरम् ॥१९९२॥
मूलम् - १९९२

तस्यैव ।
विश्वास-प्रस्तुतिः - १९९३
अयि चकोरकुटुम्बिनि कातरे
तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियद् अप्य् अवशिष्यते
व्यपगतं तिमिरैर् उदितः शशी ॥१९९३॥
मूलम् - १९९३
अयि चकोरकुटुम्बिनि कातरे
तिरय पक्षपुटेन कुटुम्बकम् ।
बहु गतं कियद् अप्य् अवशिष्यते
व्यपगतं तिमिरैर् उदितः शशी ॥१९९३॥
पापाकस्य ।
विश्वास-प्रस्तुतिः - १९९४
क्रमगलितैः शिखिपुच्छैर्
मण्डनम् आस्तां वधेन किं शिखिनः ।
कुतुकिनि पुनर् न लाभो
विषधरविषमे वने भविता ॥१९९४॥
मूलम् - १९९४
क्रमगलितैः शिखिपुच्छैर्
मण्डनम् आस्तां वधेन किं शिखिनः ।
कुतुकिनि पुनर् न लाभो
विषधरविषमे वने भविता ॥१९९४॥
कस्यचित् । (सू।मु। १६।२)
विश्वास-प्रस्तुतिः - १९९५
भ्राम्यद्भ्यो’पि गृहे गृहे कटुताम् अप्य् आलपद्भ्यो गिरं
गृध्नुभ्यो’पि बलाद् अमेध्यम् अथवावज्ञां व्रजद्भ्यो’पि च ।
शय्योत्थायम् उपासते वसतिम् इत्य् एतावतायं न्ट्णां
काकेभ्यो बलिर् अस्ति कोकिलबलिः केनापि नाकर्णितः ॥१९९५॥
मूलम् - १९९५

कस्यचित् ।