०७० शुकः

विश्वास-प्रस्तुतिः - १९८६

प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत् ॥१९८६॥

मूलम् - १९८६

प्रतिजागृहि दुस्त्यजं वपुः
शुक शोकं ननु मा वृथा कृथाः ।
क्व वनं क्व च पञ्जरोदरं
तव दोषः स्फुटवादिता न चेत् ॥१९८६॥

अचलसिंहस्य ।

विश्वास-प्रस्तुतिः - १९८७

अयि शाकुनिक कृतो’ञ्जलिर् इतरे न कतीह जीवनोपायाः ।
हत्वा शुकान् किम् एतद् विपिनम् असारस्वतं कुरुषे ॥१९८७॥

मूलम् - १९८७

अयि शाकुनिक कृतो’ञ्जलिर् इतरे न कतीह जीवनोपायाः ।
हत्वा शुकान् किम् एतद् विपिनम् असारस्वतं कुरुषे ॥१९८७॥

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - १९८८

एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥

मूलम् - १९८८

एकत्र प्राकृतैः साम्यम् अन्यत्र परतन्त्रता ।
शुकस्य परितोषाय न वनं न च पत्तनम् ॥१९८८॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १९८९

अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात् ।
अनिशम् अपि सुधानिधानवाणीं
रचयतु मौनमुखो’स्तु वा समस्ते ॥१९८९॥

मूलम् - १९८९

अयि खलु बधिराधिराज कीरं
तुदसि शलाकनिपातनेन मोहात् ।
अनिशम् अपि सुधानिधानवाणीं
रचयतु मौनमुखो’स्तु वा समस्ते ॥१९८९॥

विश्वास-प्रस्तुतिः - १९९०

भ्रातः कीर किम् अत्र नीरसतरुस्कन्धे मधुस्यन्दिभिर्
व्याहारैस् तव वस्तुवर्णितकथाबन्धैर् मुधायं श्रमः ।
नैते दाडिमशाखिनः परिणतैर् येषां फलैर् अन्तरं
निर्भिद्यापि गुणानुरक्तम् अशठैर् आविष्क्रियन्ते मुदः ॥१९९०॥

मूलम् - १९९०

लौलिकस्य ।