०६६ मनस्विचातकः

विश्वास-प्रस्तुतिः - १९६६

गङ्गा शम्भुशिरोजलं जलनिधिर् देवस्य लक्ष्मीपतेः
शय्याक्षालनवारि वारि सरसः क्लीबस्य निन्द्यं सताम् ।
नद्यस् ताः शतशो’न्ययोषित इति त्यक्तोपभोगो युवा
सारङ्गः सततोन्नतेन शिरसा धाराधरं याचते ॥१९६६॥

मूलम् - १९६६

कस्यचित् ।

विश्वास-प्रस्तुतिः - १९६७

किं नैव सन्ति भुवि तामरसावतंसा
हंसावलीवलयिनो जलसन्निवेशाः ।
को दुर्ग्रहो ग्रहवतः खलु चातकस्य
पौरन्दरीं यद् अभिवाञ्छति वारिधाराम् ॥१९६७॥

मूलम् - १९६७

कस्यचित् । (स्व्। ६८१)

विश्वास-प्रस्तुतिः - १९६८

एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥१९६८॥

मूलम् - १९६८

एक एव खगो मानी वने वसति चातकः ।
पिपासितो वा म्रियते याचते वा पुरन्दरम् ॥१९६८॥

कस्यचित् । (स्व् ६७४, शा।प। ८५२)

विश्वास-प्रस्तुतिः - १९६९

तृषार्तां शोचन्तीं न गणयति दीनां गृहवतीं
न दीनः पक्षाभ्यां स्थगयति शिशून् आलपति वा ।
कुटुम्बी सारङ्गः प्रसरति निदाघे’प्य् अविकलः
कुलस्य स्वस्यायं पथि न पदम् अल्पं श्लथयति ॥१९६९॥

मूलम् - १९६९

गोसोकस्य ।

विश्वास-प्रस्तुतिः - १९७०

यद् अस्माद् अस्माभिश् चिरविहितसेवैर् अपि घनाद्
अनाप्ताः सारङ्गैः कतिपयपयःशीकरकणाः ।
द्विषन्तो वेशन्तं भृशम् अपलपन्तः पतिम् अपाम्
अपार्थीकुर्वन्तः सरितम् अनुयामस् तद् अपि तम् ॥१९७०॥

मूलम् - १९७०

आवन्तिकद्रव्यस्य ।