०६५ अनन्यगतिकचातकः

विश्वास-प्रस्तुतिः - १९६१

विष्वक्प्लावयता जगन्ति जलद प्रीतस् त्वया वारिभिः
सारङ्गो’पि यदि प्रसङ्गपतितः केयं विशेषज्ञता ।
सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयि
क्षीणो’पि क्वचिद् एव नाम्भसि मनाग् आरो’पि चञ्चू पुटः ॥१९६१॥

मूलम् - १९६१

विष्वक्प्लावयता जगन्ति जलद प्रीतस् त्वया वारिभिः
सारङ्गो’पि यदि प्रसङ्गपतितः केयं विशेषज्ञता ।
सानन्दाः स्तुमहे चिराय चरितं तस्यैव येन त्वयि
क्षीणो’पि क्वचिद् एव नाम्भसि मनाग् आरो’पि चञ्चू पुटः ॥१९६१॥

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - १९६२

वदत विदतजम्बूद्वीपसंवृत्तवार्ताः
क्वचिद् अपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेनार्पितो’साव्
अतिवहलपिपासापांशुलः कण्ठनालः ॥१९६२॥

मूलम् - १९६२

वदत विदतजम्बूद्वीपसंवृत्तवार्ताः
क्वचिद् अपि यदि दृष्टं वारिवाहं विहाय ।
सरिति सरसि सिन्धौ चातकेनार्पितो’साव्
अतिवहलपिपासापांशुलः कण्ठनालः ॥१९६२॥

लक्ष्मीधरस्य । (सु।र। १०५४)

विश्वास-प्रस्तुतिः - १९६३

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम
विद्युल्लताभिर् अभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर्
एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥१९६३॥

मूलम् - १९६३

त्वं गर्ज नाम विसृजाम्बुद नाम्बु नाम
विद्युल्लताभिर् अभितर्जय नाम भूयः ।
प्राचीनकर्मपरतन्त्रनिजप्रवृत्तेर्
एतस्य पश्य विहगस्य गतिस् त्वम् एव ॥१९६३॥

कस्यचित् । (सु।र। १०८८)

विश्वास-प्रस्तुतिः - १९६४

नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता ।
तस्यैतत् फलितं यदुद्घतशिलासन्ताडनं मस्तके
गाढं गर्जसि वज्रम् उज्झसि तडिल्लेखाभिर् आतर्जसि ॥१९६४॥

मूलम् - १९६४

नीहाराकरसारसागरसरित्कासारनीरश्रियं
त्यक्त्वा तोयद चातकेन भवतः सेवा समालम्बिता ।
तस्यैतत् फलितं यदुद्घतशिलासन्ताडनं मस्तके
गाढं गर्जसि वज्रम् उज्झसि तडिल्लेखाभिर् आतर्जसि ॥१९६४॥

कस्यचित् । (शा।प। ७७२)

विश्वास-प्रस्तुतिः - १९६५

यन्मूर्धानम् अशिक्षितो नमयितुं निम्नेषु तेनोच्चकैर्
आरूढः पदम् आदरेण जलद त्वां याचते चातकः ।
यद्य् अस्मै विमुखो भवान् अपि पयोधाराः करीतुं ततः
पक्ष्मारोपितचञ्चुर् एष जरयत्व् अङ्गे पिपासारसम् ॥१९६५॥

मूलम् - १९६५

यन्मूर्धानम् अशिक्षितो नमयितुं निम्नेषु तेनोच्चकैर्
आरूढः पदम् आदरेण जलद त्वां याचते चातकः ।
यद्य् अस्मै विमुखो भवान् अपि पयोधाराः करीतुं ततः
पक्ष्मारोपितचञ्चुर् एष जरयत्व् अङ्गे पिपासारसम् ॥१९६५॥

कस्यचित् ।