विश्वास-प्रस्तुतिः - १९५६
दृष्ट्वा तोयभरावनम्रनिविडप्रारम्भम् अम्भोधरं
तृष्णार्तः किल रौति यावद् असकृत् तोयाशया चातकः ।
तावच् चञ्चलचञ्चुकोटरकुटीकोष्ठे लुठन्तः स्फुटं
अयि चातक चञ्चुपुटात् स्खलयति जलदोदबिन्दुम् अनिलश् चेत् ।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९५६॥
मूलम् - १९५६

शब्दार्णवस्य ।
विश्वास-प्रस्तुतिः - १९५७
अस्योदरे बहुमनोरथमन्थरेण
सञ्चिन्तितं किम् अपि चेतसि चातकेन ।
हा कष्ट मिष्टफलदानविधानहेतोर्
अम्भोधरात् पतति सम्प्रति वज्रपातः ॥१९५७॥
मूलम् - १९५७

लडहचन्द्रस्य । (सु।र। ११०१)
विश्वास-प्रस्तुतिः - १९५८
सिन्धोर् एव कियज् जलं कलसभूर् यत्पाणिपात्रे दधौ
तत् पीतं कियद् अम्बुदैः कियद् इतो वान्तं कियद् वा स्थितम् ।
तत् पातुं व्यवसायदीनमनसो धावन्त्य् अमी सम्भ्रमाद्
आवर्तैर् मरुतां तद् अप्य् अपहृतं धिक् चातकान् धिग् विधिम् ॥१९५८॥
मूलम् - १९५८

लक्ष्मीधरस्य ।
विश्वास-प्रस्तुतिः - १९५९
बीजैर् अङ्कुरितं लताभिर् उदितं वल्लीभिर् उज्जृम्भितं
कन्दैः कन्दलितं जनैश् च मुदितं धाराधरे वर्षति ।
भ्रातश् चातक पातकं किम् अपि ते सम्यङ् न जानीमहे
येनास्मिन् न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः ॥१९५९॥
मूलम् - १९५९

वसुकल्पस्य ।
विश्वास-प्रस्तुतिः - १९६०
अयि चातक चञ्चुपुटात् स्खलयति जलदोदबिन्दुम् अनिलश् चेत् ।
द्विज एव भाग्यहीनो जीवनदाता कृती जलदः ॥१९६०॥
मूलम् - १९६०