विश्वास-प्रस्तुतिः - १९३६
अभ्युन्नतो’सि सलिलैः परिपूरितो’सि
त्वाम् अर्थयन्ति विहगास् तृषितास् तथैते ।
कालः पयोधर परोपकृतेस् तवायं
चण्डानिलव्यतिकरे क्व भवान् क्व ते वा ॥१९३६॥
मूलम् - १९३६

वाञ्छोकस्य ।
विश्वास-प्रस्तुतिः - १९३७
अये पाथोवाह स्थगय ककुभो’न्यास्तत इतस्
त्यजैतां सीमानं वसति मुनिर् अस्यां कलशभूः ।
उदञ्चत्कोपे’स्मिन् स जलधिर् अपि स्थास्यति न ते
यतः पायं पायं सलिलम् इह शौर्यं प्रथयसि ॥१९३७॥
मूलम् - १९३७

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - १९३८
आकल्पं यदि वर्षसि प्रतिदिनं धारासहस्रैस् तथाप्य्
अम्भोधौ कलयत्य् अगाधजठरे कस् तावकीनं श्रमम् ।
अम्भोद क्षणमात्रम् उज्झसि पयः पृष्ठे यदि क्ष्माभृतां
तत् किं न प्रसरन्ति निर्झरसरिद्व्याजेन ते कीर्तयः ॥१९३८॥
मूलम् - १९३८

वासुदेवस्य ।
विश्वास-प्रस्तुतिः - १९३९
एते ते पुरतो मरुस्थलभुवः प्रोच्चण्डदावानल
ज्वालालीढकठोरसूरकिरणप्लुष्टच्छदाः शाखिनः ।
तान् एतान् अवधीर्य खिन्नवपुषो दुःशीलझञ्झानिल
क्रीडाभिर् न पयोद गन्तुम् उचितं वेलाभिषिक्तद्रुमान् ॥१९३९॥
मूलम् - १९३९

योगेश्वरस्य ।
विश्वास-प्रस्तुतिः - १९४०
अये पश्यावस्थाम् अकरुणसमीरव्यतिकर
स्फुरद्दावज्वालावलिजटिलमूर्तेर् विटपिनः ।
अमुं कालक्षेपं त्यज जलद गम्भीरमधुरैः
किम् एभिर् निर्घोषैः सृज झटिति झात्कारि सलिलम् ॥१९४०॥
मूलम् - १९४०

अचलसिंहस्य । (सु।र। १०२९)