विश्वास-प्रस्तुतिः - १९३१
शमीषण्डस् तावत् खदिरवनम् अस्माच् च परतस्
ततो वध्वोलीनाम् अपि गहनम् उत्कीटविरुतम् ।
इतः कर्कन्धूनां वनम् अनु यवासस्थलम् इदं
क्व कल्याणः पन्थाः पथिक हतदेशो मरुर् अयम् ॥१९३१॥
मूलम् - १९३१

कस्यचित् ।
विश्वास-प्रस्तुतिः - १९३२
हे धाराधर विश्वम् एव भवता साधारणं सिञ्चता
क्ÿप्ताकस्मिकदुर्दिनेन समये को नाम नासादितः ।
एतस्यैव मरोर् मरालललनालीलानभिज्ञैस् तटैर्
आपातालविशुष्कसैकतभुवस् तापो’पि नापोहितः ॥१९३२॥
मूलम् - १९३२

विश्वास-प्रस्तुतिः - १९३३
भ्रामं भ्रामम् अनङ्गभूपरिसरे सारङ्ग निश्चापलं
वास्तव्यो भव मा पुनर् मरुपथप्रस्थानवाञ्छां कृथाः ।
यत्रादुर्बलदोर्बलैर् गुणगणव्यासक्तपात्रान्तरैर्
लभ्यन्ते पुरुषैः परं कतिपयैः कौपाः पयोबिन्दवः ॥१९३३॥
मूलम् - १९३३

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - १९३४
भ्रातः पान्थ मरीचिकामयमृषावाःपूरपूर्णाम् इमाम्
उद्दिश्य प्रबलप्रसृत्वरतृषाक्लेशान्ध किं धावसि ।
नन्व् एते मरुमेदिनीपरिसरा यैर् अस्ति गोपायितं
क्रूरैर् न स्वपरोपकारि सकलं प्¸अतालमूले पयः ॥१९३४॥
मूलम् - १९३४

तस्यैव ।
विश्वास-प्रस्तुतिः - १९३५
पायं पायं पिब पिब पयः सिञ्च सिञ्चाङ्गम् अङ्गं
भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि ।
एषां शेषश्रमशमपटुदुःखिताध्वन्य् अबन्धुः
सिन्धुर् दूरीभवति पुरतो मारवः पान्थ पन्थाः ॥१९३५॥
मूलम् - १९३५

धनपालस्य । (शा।प। ११५१, सू।मु। ३०।३)