०५८ नानातरवः

विश्वास-प्रस्तुतिः - १९२६

न्यग्रोधे फलशालिनि स्फुटरसं किञ्चित् फलं पच्यते
बीजान्य् अङ्कुरगोचराणि कतिचित् सिध्यन्ति तस्मिन्न् अपि ।
एकस् तेष्व् अपि कश्चिद् अङ्कुरवरो बध्नाति ताम् उन्नतिं
याम् अध्यन् यजनः स्वमातरम् इव क्लान्तिच्छिदे धावति ॥१९२६॥

मूलम् - १९२६

शालिकस्य । (सु।र। १०६२, शालिकनाथस्य)

विश्वास-प्रस्तुतिः - १९२७

केनात्र चम्पकतरो बत रोपितो’सि
कुग्रामपामरजनान्तिकबाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभ
गोभग्नबाटघटनोचितपल्लवो’सि ॥१९२७॥

मूलम् - १९२७

केनात्र चम्पकतरो बत रोपितो’सि
कुग्रामपामरजनान्तिकबाटिकायाम् ।
यत्र प्ररूढनवशाकविवृद्धलोभ
गोभग्नबाटघटनोचितपल्लवो’सि ॥१९२७॥

वीरस्य ।

विश्वास-प्रस्तुतिः - १९२८

फलानां सम्भारैर् अधरय तरून् उन्नततया
स्पृशाकाशं सर्वाः स्थगय परिणाहैर् अपि दिशः ।
तथापि ध्वाङ्क्षेभ्यो न पुनर् इतरः को’पि विहगः
फलार्थी निम्ब त्वां प्रकृतिविरसं धावति मुदा ॥१९२८॥

मूलम् - १९२८

विश्वेश्वरस्य ।

विश्वास-प्रस्तुतिः - १९२९

पृथुत्वात् सौरभ्यान् मधुरतरभावाच् च पतितैः
क्षुधोत्तप्तैः कुक्षिम्भरिभिर् इह सेवा तव कृताः ।
तदात्वव्यामुग्धैर् अनुदिवसम् अस्वास्थ्यजननी
न दृष्टा ते’स्माभिः पनस परिणामे विरसता ॥१९२९॥

मूलम् - १९२९

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १९३०

परार्थे यः पीडाम् अनुभवति निर्व्याजमधुरो
यदीयः सर्वेषाम् इह खलु विकारो’प्य् अभिमतः ।
न सम्प्राप्तो वृद्धिं सपदि हतदैवात् समुचितां
किम् इक्षोर् दोषो’यं स पुनर् अगुणाया मरुभुवः ॥१९३०॥

मूलम् - १९३०

वाक्पतेः । (स्व्। ९४७, शा।प। १०५२, सू।मु। ३५।५)