०५७ मरुतरुः

विश्वास-प्रस्तुतिः - १९२१

फणी मूलश्वभ्रे वपुर् अविरलं कीटपटलैः
शिरो गृध्रश्रेणीविधुरितम् अधः कण्ठकचितम् ।
इतीदं जानीमश् चिरम् अपथभाजस् तव तरो
तथाप्य् अस्याम् अक्ष्मारुहि भुवि भवान् एव शरणम् ॥१९२१॥

मूलम् - १९२१

फणी मूलश्वभ्रे वपुर् अविरलं कीटपटलैः
शिरो गृध्रश्रेणीविधुरितम् अधः कण्ठकचितम् ।
इतीदं जानीमश् चिरम् अपथभाजस् तव तरो
तथाप्य् अस्याम् अक्ष्मारुहि भुवि भवान् एव शरणम् ॥१९२१॥

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - १९२२

प्रथमम् एव गुरु क्व मरुद्रुमे
तरुणितापकृतापदि पल्लवम् ।
यद् अपि किं क्वचिद् उञ्च्तम् आशु तत्
कवलितं करभैर् अतिभैरवैः ॥१९२२॥

मूलम् - १९२२

प्रथमम् एव गुरु क्व मरुद्रुमे
तरुणितापकृतापदि पल्लवम् ।
यद् अपि किं क्वचिद् उञ्च्तम् आशु तत्
कवलितं करभैर् अतिभैरवैः ॥१९२२॥

चपलदेवस्य ।

विश्वास-प्रस्तुतिः - १९२३

आश्यानैर् गलितं दलैर् बत कथाशेषाः प्रसूनश्रियो
नोद्भेदो’पि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
आपातालविशुष्कमूलकुहरोन्मीलज्जटासन्ततिस्
तूष्णीम् अस्ति तथाप्य् अकालजलदं ध्यायन् मरुक्ष्मारुहः ॥१९२३॥

मूलम् - १९२३

आश्यानैर् गलितं दलैर् बत कथाशेषाः प्रसूनश्रियो
नोद्भेदो’पि फलं प्रति प्रतिदिशं याता निराशाः खगाः ।
आपातालविशुष्कमूलकुहरोन्मीलज्जटासन्ततिस्
तूष्णीम् अस्ति तथाप्य् अकालजलदं ध्यायन् मरुक्ष्मारुहः ॥१९२३॥

भट्टशालीयपीताम्बरस्य ।

विश्वास-प्रस्तुतिः - १९२४

नासाग्रे पवनः परं नयनयोर् आपः क्र्या चेतसि
स्थैर्यं दाहभरेषु किं नु विदिता नैता मरुक्षोणयः ।
यत्राशाशतसम्भ्रमेण पथिकैर् लब्धो’पि भूमीरुहस्
तेषाम् एव निदाघबिन्दुनिचयैः सेकस्थितिं वाञ्छति ॥१९२४॥

मूलम् - १९२४

नासाग्रे पवनः परं नयनयोर् आपः क्र्या चेतसि
स्थैर्यं दाहभरेषु किं नु विदिता नैता मरुक्षोणयः ।
यत्राशाशतसम्भ्रमेण पथिकैर् लब्धो’पि भूमीरुहस्
तेषाम् एव निदाघबिन्दुनिचयैः सेकस्थितिं वाञ्छति ॥१९२४॥

सोढगोविन्दस्य ।

विश्वास-प्रस्तुतिः - १९२५

कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल्
लूत्वा वृक्षान् अहह दहसि म्रातरङ्गारकार ।
किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम्
अध्वन्यानाम् अशरणमरुप्रान्तरे को’भ्युपायः ॥१९२५॥

मूलम् - १९२५

कल्याणं नः किम् अधिकम् इतो जीवनार्थं यद् अस्माल्
लूत्वा वृक्षान् अहह दहसि म्रातरङ्गारकार ।
किं त्व् एतस्मिन्न् अशनिपिशुनैर् आतपैर् आकुलानाम्
अध्वन्यानाम् अशरणमरुप्रान्तरे को’भ्युपायः ॥१९२५॥

गदाधरस्य । (शा।प। ११८३, सू।मु। ३३।६, सु।र। १०३९)