विश्वास-प्रस्तुतिः - १९११
पुष्पं रक्षतु कण्टकैः परिमलेनानन्दयन् केतकीः
किं चासौ पनसः सुधासहचरस्वादातिहृद्यं फलम् ।
नामोदः कुसुमे फलेषु न रसस् तत् किं मुधा शाल्मले
काण्डं निर्भरम् आवृणोषि विषमैर् आमूलतः कण्टकैः ॥१९११॥
मूलम् - १९११

नाकोकस्य ।
विश्वास-प्रस्तुतिः - १९१२
मूलं कण्ठककर्परैर् उपचितं निःसारम् अन्तर्वपुर्
निर्गन्धं कुसुमं फलं क्षुधि मुधा पत्रैर् न हृद्यं क्वचित् ।
वृद्धिर् गृध्रपरिग्रहाय तद् अहो वक्तव्यम् अन्यत् परं
भ्रातः शाल्मलिवृक्ष नास्ति भवतः किञ्चिन् महत्त्वोचितम् ॥१९१२॥
मूलम् - १९१२

कस्यचित् ।
विश्वास-प्रस्तुतिः - १९१३
आहूतः परितो दिगन्तगतिभिः शाखाभराडम्बरैः
किं रे जाल्म जवेन शाल्मलिफलप्रत्याशया धावसि ।
तस्मिन्न् एकपदे भिदेलिमफलव्यालोलतूलोत्करैर्
अध्वानो’पि निमीलिताक्षम् अटता न प्रेक्षणीयाः पुरः ॥१९१३॥
मूलम् - १९१३

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - १९१४
प्रसारः शाखानां स्थगितगगनाभोगमहिमा
समृद्धिः शोणाम्भोरुहवनसमाना सुमनसाम् ।
प्रकाण्डश्रीर् वाचाम् अपि न विषयः शाल्मलितरोस्
तथाप्य् अंशुश्रेणीमयम् अनुपभोग्यं बत फलम् ॥१९१४॥
मूलम् - १९१४

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - १९१५
एतस्मिन् कुसुमे स्वभावमहति प्रायो महीयः फलं
रम्यं स्वादु सुगन्धि शीतलम् अलं प्राप्तव्यम् इत्य् आशया ।
शाल्मल्याः परिपाककालकलनाबोधेन कीरः स्थितो
यावत् तत्पुटसन्धिनिर्गतपतत्तूलं फलात् पश्यति ॥१९१५॥
मूलम् - १९१५

शालिकनाथस्य । (सु।र। १०६३)