०५४ उच्चावचचाटुः

विश्वास-प्रस्तुतिः - १६३६

अभ्युद्धृता वसुमती दलितं रिपूरः
क्रीडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं तदनेन यूना
जन्मत्रये यद् अकरोत् पुरुषः पुराणः ॥१६३६॥

मूलम् - १६३६

श्रीहनूमतः । (स।क।आ। १।९८, व् ४७१, सू।मु। ९७।५)

विश्वास-प्रस्तुतिः - १६३७

कर्णं चक्षुर् अजीगणत् तव पितुस् तातः पिता ते पुनः
शक्त्याधारकुमारम् अप्य् अजगणत् तं कातरत्वेन सः ।
देवो’गान् महिषीति पश्यति जगत् त्व् एवं विवेक्तुं पुनः
प्रागल्भ्यं प्रथयन्ति वस् तद् अपि च प्रज्ञाधनाः साधवः ॥१६३७॥

मूलम् - १६३७

विद्यापतेः ।

विश्वास-प्रस्तुतिः - १६३८

प्रभुर् असि वयं मालाकारव्रतव्यवसायिनो
वचनकुसुमं तेनास्माभिस् तवादरढौकितम् ।
यदि तद्गुणं कण्ठे मा धास् तथोरसि मा कृथा
नवम् इति कियत् कर्णौ धेहि क्षणं फलतु श्रमः ॥१६३८॥

मूलम् - १६३८

वीर्यमित्रस्य । (सु।र। १४१८)

विश्वास-प्रस्तुतिः - १६३९

वक्त्रं साक्षात् सरस्वत्य् अधिवसति सदा शोण एवाधरस् ते
बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर् दक्षिणस् ते समुद्रः ।
वाहिन्यः पार्श्वम् एताः क्षणम् अपि भवतो नैव मुञ्चन्ति राजन्
स्वच्छे’तो मानसे’स्मिन्न् अवतरति कथं तोयलेशाभिलाषः ॥१६३९॥

मूलम् - १६३९

हरिश्चन्द्रस्य ।

विश्वास-प्रस्तुतिः - १६४०

देवः कुप्यतु वा विचिन्त्य विनयं प्रीतो’स्तु वा मादृशैर्
वाञ्छद्भिः प्रभुकीर्तिम् अप्रतिहतां वक्तव्यम् एवोचितम् ।
सेवाभिर् यदि सेनवंशतिलकाद् आसादनीयाः श्रियः
सङ्कल्पानुविधायिनः सुरतरोस् तत् केन हार्यो मदः ॥१६४०॥

मूलम् - १६४०

शरणदेवस्य ।

विश्वास-प्रस्तुतिः

श्रीधरदासकृते’स्मिन् सदुक्तिकर्णामृते तृतीयो’यम् ।
चाटुप्रवाह ईप्सितफलप्रदो भवतु सन्ततं कृतिनाम् ॥

मूलम्

इति श्रीमहामाण्डलिकश्रीधरदासकृतौ सदुक्तिकर्णामृते ।

चाटुप्रवाहो नाम तृतीयः । वीचयः ५४ । श्लोकाः २७० ॥

ओ)०(ओ
सदुक्तिकर्णामृतम्

(४)
अपदेशप्रवाहवीचयः