०५२ प्रशस्तकीर्तिः

विश्वास-प्रस्तुतिः - १६२६

अन्तःसन्तोषबाष्पैः स्थगयति नयनं न श्रुतिभ्रंशभीरुर्
नाङ्गेनानस्तिरोमा रचयति पुलकश्रेणिम् आनन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन् न विद्मः
शृण्वन्न् एतस्य कीर्तीः कथम् उरगपतिः प्रीतिम् आविष्करोति ॥१६२६॥

मूलम् - १६२६

कविपण्डितश्रीहर्षस्य । (न्च् १२।३९, सू।मु। ९७।२४)

विश्वास-प्रस्तुतिः - १६२७

क्षीरोदन्वान् अलीकः कपटमयतनुस् त्र्यम्बकस्याट्टहासो
मिथ्यानीहारसम्पत्त्रिभुवनविवरे कृत्रिमा पौर्णमासी ।
संवृत्ताम्भोदवृन्दस्फुरदूरुकरकासारसन्देहदायी
दायादः कुन्दभासां दिशि विदिशि बभौ यस्य कीर्तिप्रतानः ॥१६२७॥

मूलम् - १६२७

वसुकल्पस्य ।

विश्वास-प्रस्तुतिः - १६२८

कैलासे निह्नुतश्रीः परिफितवपुः पार्वणः श्वेतभानुः
शेषः प्रच्छन्नवेशः कलयति न रुचिं जाह्नवीवारिवेणिः ।
पीतः क्षीराम्बुराशिः प्रसभम् अपहृतः कुञ्जरो देवभर्तुर्
यत्कीर्तीनां विवर्तैर् अजनि स भगवान् एकदन्तो’प्य् अदन्तः ॥१६२८॥

मूलम् - १६२८

श्रीमत्केशवसेनदेवस्य ।

विश्वास-प्रस्तुतिः - १६२९

यद्वर्त्मोद्याति रोद्धुं त्रिपुरहरगिरिग्रामणीस् तन् नियन्तुं
कौवेरीं कुम्भजन्मा व्रजति यदि तदा दुर्धरा विन्ध्यवृद्धिः ।
इत्थं यत्कीर्तिराशौ तिर्दशपतिपुराक्रान्तिदत्तप्रयाणे
चिन्ताग्निः क्रूरकर्मा व्यथयति हृदयं तेजसाम् ईश्वरस्य ॥१६२९॥

मूलम् - १६२९

तस्यैव ।

विश्वास-प्रस्तुतिः - १६३०

मलिनयति वैरिवदनं स्वजनं रञ्जयति धवलयति धात्रीम् ।
अपि कुसुमविशदमूर्तिर् यत्कीर्तिश् चित्रम् आचरति ॥१६३०॥

मूलम् - १६३०

जयदेवस्य ।