विश्वास-प्रस्तुतिः - १८९१
श्रमच्छित्त्यै छायां भज पथिक हे चन्दनतरोर्
इह व्यालव्रातः पुनर् इति भयं मा खलु कृथाः ।
इदानीम् एतस्मिन् कृतवसतयः सन्ति शिखिनः
स्वनैर् येषां रम्यैर् अपि हि फणिनः क्वाप्य् अपसृताः ॥१८९१॥
मूलम् - १८९१

अचलसिंहस्य ।
विश्वास-प्रस्तुतिः - १८९२
आमोदैस् ते दिशि दिशि गतैर् दूरम् आकृष्यमाणाः
साक्षाल् लक्ष्मीं तव मलयज द्रष्टुम् अभ्यागताः स्मः ।
किं पश्यामः सुभग भवतः क्रीडति क्रोड एव
व्यालस् तुभ्यं भवतु कुशलं मुञ्च नः साधयामः ॥१८९२॥
मूलम् - १८९२

तस्यैव (शा।प। ९९८, सू।मु। ३३।२४, सु।र। १०७८)
विश्वास-प्रस्तुतिः - १८९३
क्षिप्तश् चेन् मलयाचलेन्द्र भवतः पादोपजीवी निजस्
तैर् उत्पाट्य निकुञ्जनिर्झरपयःपूरैः पटीरद्रुमः ।
तन् निर्यातु जहातु पन्नगकुलं तापं निहन्तु श्रियं
धत्तां विन्दतु वन्द्यतां त्रिजगतां त्वत्कीर्तिम् उन्मुद्रयन् ॥१८९३॥
मूलम् - १८९३

साञ्जानन्दिनः ।
विश्वास-प्रस्तुतिः - १८९४
ककुभि ककुभि भ्रामं भ्रामं विलोक्य विलोकितं
मलयजसमो दृष्टो’स्माभिर् न को’पि महीरुहः ।
उपचितरसो दाहे च्छेदे शिलातलघर्षणैर्
अधिकम् अधिकं यत् सौरभ्यं तनोति मनोहरम् ॥१८९४॥
मूलम् - १८९४

भामहस्य । (सु।र। १०८२)
विश्वास-प्रस्तुतिः - १८९५
क्व मलयतटी जन्मस्थानं क्व ते च वनेचराः
क्व खलु परशुच्छेदः क्वासौ दिगन्तरसङ्गतिः ।
क्व च खरशिलापट्टे घृष्टिः क्व पङ्कसरूपता
मलयज सखे मा गाः खेदं गुणास् तव वैरिणः ॥१८९५॥
मूलम् - १८९५

मलयजस्य । (सु।र। १०५३)