विश्वास-प्रस्तुतिः - १६१६
का त्वं, कुन्तलमल्लकीर्तिर्, अहह क्वासि स्थिता, न क्वचित्
सख्यस् तास् तव कुत्र कुत्र वद वाग् लक्ष्मीस् रुचः सम्प्रति ।
वाग् याता चतुराननस्य वदनं लक्ष्मीर् मुरारेर् उरः
कान्तिर् मण्डलम् ऐन्दवं मम पुनर् नाद्यापि विश्रामभूः ॥१६१६॥
मूलम् - १६१६

छित्तपस्य । (सु।र। १००५)
विश्वास-प्रस्तुतिः - १६१७
रामः सैन्यसमन्वितः कृतशिलासेतुर् यद् अम्भोनिधेः
पारं लङ्घितवान् पुरा तद् अधुना नाश्चर्यम् उत्पादयेत् ।
एकाकिन्य् अपि सेतुबन्धरहितान् सप्तापि वारां निधीन्
हेलाभिस् तव देव कीर्तिवनिता यस्मात् समुल्लङ्घति ॥१६१७॥
मूलम् - १६१७

तस्यैव । (सु।र। १०१२)
विश्वास-प्रस्तुतिः - १६१८
किं वृत्तान्तैः परगृहगतैः किन्तु नाहं समरथस्
तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यस्वभावः ।
देशे देशे विपणिषु तथा चत्वरे पानगोष्ठ्याम्
उन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः ॥१६१८॥
मूलम् - १६१८

तुतातितस्य । (स्व् २५४४, सु।र। ९९६, शा।प। १२२७)
विश्वास-प्रस्तुतिः - १६१९
अनन्तासौ कीर्तिः कविकुमुदबन्धोः क्षितिपतेस्
त्रिलोकीयं क्षुद्रा तद् इह कथम् अस्याः स्थितिर् इति ।
मुधेयं वः शङ्का कलयत कियद्दर्पणतलं
विशाला किं तत्र स्फुरति न कवीन्द्रप्रतिकृतिः ॥१६१९॥
मूलम् - १६१९

पञ्चाक्षरस्य ।
विश्वास-प्रस्तुतिः - १६२०
ध्यायन्ती निरपायनायकगुणं त्वत्कीर्तिर् अम्भोनिधेर्
भ्राम्यनित् विपिनान्तरेषु विरहव्यग्रेव पाण्डुच्छविः ।
चन्द्रं निन्दति चन्दनं न सहते द्वेष्टि श्रियं शारदीं
दूराद् एव निराकरोति करकाकर्पूरहारस्रजः ॥१६२०॥
मूलम् - १६२०

शरणस्य ।