०४९ तरुः

विश्वास-प्रस्तुतिः - १८८१

शाखानाम् उपरि स्थितैः शकुनिभिर् दूराद् गृहीता दिशः
सद्योमुक्तफलैर् विवृत्य कपिभिः पश्यद्भिर् एव स्थितम् ।
छायापास् तपरिश्रमैश् च पथिकैर् आत्मा परं रक्षितो
न क्षुद्रैर् निपतन् निशातपरशावात्मार्पितः शाखिनि ॥१८८१॥

मूलम् - १८८१

अभिनन्दस्य ।

विश्वास-प्रस्तुतिः - १८८२

मूर्धारोपणसत्कृतैर् दिशि दिशि क्षुद्रैर् विहङ्गैर् द्रुतं
छायादाननिराकृतश्रमभरैर् नष्टं मृगैर् भीरुभिः ।
हा कष्टं फललोलुपैर् अपसृतं शाखामृगैश् चञ्चलैर्
एकेनैव दवानलव्यतिकरः सोढः परं शाखिना ॥१८८२॥

मूलम् - १८८२

कस्यचित् । (सु।र। १०२४)

विश्वास-प्रस्तुतिः - १८८३

सुच्छायं फलभारनम्रशिखरं सर्वार्तिशान्तिप्रदं
त्वाम् आलोक्य सुभूरुहं खलु वयं मार्गं विहायागताः ।
अन्तस् ते यदि कोटरोदरचलद्व्यालावलीविस्फुरद्
वक्तोद्वान्तविषानलातिभयदं धन्यस् तदानीं भवान् ॥१८८३॥

मूलम् - १८८३

विद्यायाः । (सु।र। १०५०)

विश्वास-प्रस्तुतिः - १८८४

व्याकुर्महे बहु किम् अस्य तरोः सदैव
नैसर्गिको यद् उपकाररसः परेषु ।
उन्मूलितो’पि मरुता बत वारिदुर्गे
मार्गे यद् अन्यजनसङ्क्रमताम् उपेतः ॥१८८४॥

मूलम् - १८८४

कस्यचित् । (सु।र। १०९०)

विश्वास-प्रस्तुतिः - १८८५

सोढप्रौढहिमक्लमानि शनकैः पत्राण्य् अधः
सम्भाव्यच्छदवाञ्छयैव तरवः केचित् कृतघ्नव्रताः ।
नामन्य् अन्त तदातनीम् अपि निजच्छायाक्षितिं तैः पुनस्
तेषाम् एव तले कृतज्ञचरितैः शुष्यद्भिर् अप्य् आस्यते ॥१८८५॥

मूलम् - १८८५

अचलसिंहस्य । (सू।मु। ३३।८, बिल्हणस्य; सु।र। १०४२)