०४७ यशः

विश्वास-प्रस्तुतिः - १६०१

मूलं फणाः फणिपतेर् गगनं च मध्यः
शाखा दिशो जलधिमण्डलम् आलवालम् ।
त्रैलोक्यनाथ तव देव यशोद्रुमस्य
तारागणाः सुमनसः फलम् इन्दुबिम्बम् ॥१६०१॥

मूलम् - १६०१

मूलं फणाः फणिपतेर् गगनं च मध्यः
शाखा दिशो जलधिमण्डलम् आलवालम् ।
त्रैलोक्यनाथ तव देव यशोद्रुमस्य
तारागणाः सुमनसः फलम् इन्दुबिम्बम् ॥१६०१॥

श्रीहनूमतः ।

विश्वास-प्रस्तुतिः - १६०२

मातुः स्वेदमयं ततान पृथुकः क्रोडेन धात्र्याम् असौ
रागाढ्यस् तरुणः पुरन्दरपुरस्त्रीन्यस्तकण्ठग्रहः ।
ज्यायान् अप्य् अभिनत्पितामहपदं नित्याविनीतस् तनू
जन्मा ते यशसां गणस् तदुचितव्रीडो’सि तत्कीर्तने ॥१६०२॥

मूलम् - १६०२

मातुः स्वेदमयं ततान पृथुकः क्रोडेन धात्र्याम् असौ
रागाढ्यस् तरुणः पुरन्दरपुरस्त्रीन्यस्तकण्ठग्रहः ।
ज्यायान् अप्य् अभिनत्पितामहपदं नित्याविनीतस् तनू
जन्मा ते यशसां गणस् तदुचितव्रीडो’सि तत्कीर्तने ॥१६०२॥

छित्तपस्य । (सू।मु। ९७।३९)

विश्वास-प्रस्तुतिः - १६०३

बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडव
व्यग्रो नापि यशोमयो यदुपतेर् अम्लायमानो’म्बुधिः ।
अब्धींल् लब्धपराभवानधरयन्न् अर्वाग् अथो’र्वीभृतः
कुर्वन् गर्वविलङ्घितावधिर् अधि ब्रह्माण्डम् आरोहति ॥१६०३॥

मूलम् - १६०३

बद्धो नैष न लङ्घितो न मथितः पीतो न वा बाडव
व्यग्रो नापि यशोमयो यदुपतेर् अम्लायमानो’म्बुधिः ।
अब्धींल् लब्धपराभवानधरयन्न् अर्वाग् अथो’र्वीभृतः
कुर्वन् गर्वविलङ्घितावधिर् अधि ब्रह्माण्डम् आरोहति ॥१६०३॥

वाचस्पतेः ।

विश्वास-प्रस्तुतिः - १६०४

ऐरावणन्ति करिणः फणिनो’प्य् अशेषाः
शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः
कैलासितुं व्यवसिता भवतो यशोभिः ॥१६०४॥

मूलम् - १६०४

ऐरावणन्ति करिणः फणिनो’प्य् अशेषाः
शेषन्ति हन्त विहगा अपि हंसितारः ।
नीलोत्पलानि कुमुदन्ति च सर्वशैलाः
कैलासितुं व्यवसिता भवतो यशोभिः ॥१६०४॥

महाशक्तेः । (सु।र। १०११)

विश्वास-प्रस्तुतिः - १६०५

देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु निष्कल्मषाः
कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
तद् याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशः सितासितपयोभेदाद् विवेको’स्तु नः ॥१६०५॥

मूलम् - १६०५

देव स्वस्ति वयं द्विजास् तत इतस् तीर्थेषु निष्कल्मषाः
कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
तद् याचेमहि सप्तविष्टपशुचीभावैकतानव्रतं
संयच्छ स्वयशः सितासितपयोभेदाद् विवेको’स्तु नः ॥१६०५॥

रथाङ्गस्य । (सु।र। ९९५)