०४७ मृगी

विश्वास-प्रस्तुतिः - १८७१

अनुगृहाण शिशून् अभिलङ्घिता
शबरवारिविहारवनस्थली ।
विसृज कातरताम् इदम् अग्रतो
हरिनि कारुणिकस्य तपोवनम् ॥१८७१॥

मूलम् - १८७१

अनुगृहाण शिशून् अभिलङ्घिता
शबरवारिविहारवनस्थली ।
विसृज कातरताम् इदम् अग्रतो
हरिनि कारुणिकस्य तपोवनम् ॥१८७१॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १८७२

हरिणि भिल्लसमाजसमाकुलं
व्रज सरो’थ किम् अत्र विलम्बसे ।
विशति पातुम् अपो न तपोवनाद्
इदम् अभक्ष्यपला कपिलापि गौः ॥१८७२॥

मूलम् - १८७२

हरिणि भिल्लसमाजसमाकुलं
व्रज सरो’थ किम् अत्र विलम्बसे ।
विशति पातुम् अपो न तपोवनाद्
इदम् अभक्ष्यपला कपिलापि गौः ॥१८७२॥

चपलदेवस्य ।

विश्वास-प्रस्तुतिः - १८७३

हरिणि सानुनि मानुषवर्जिते
चर विसृज न निर्भरम् अर्भकान् ।
तव तरक्षुकुलक्षुभितोदरे
वसुमतीभृति निर्वृतिर् एव का ॥१८७३॥

मूलम् - १८७३

हरिणि सानुनि मानुषवर्जिते
चर विसृज न निर्भरम् अर्भकान् ।
तव तरक्षुकुलक्षुभितोदरे
वसुमतीभृति निर्वृतिर् एव का ॥१८७३॥

तस्यैव ।

विश्वास-प्रस्तुतिः - १८७४

इह निभृतनिपातमूकपादं
वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा
मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥१८७४॥

मूलम् - १८७४

इह निभृतनिपातमूकपादं
वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा
मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥१८७४॥

मन्दोकस्य ।

विश्वास-प्रस्तुतिः - १८७५

आदाय मांसम् अखिलं स्तनवर्जम् अङ्गान्
मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥१८७५॥

मूलम् - १८७५

आदाय मांसम् अखिलं स्तनवर्जम् अङ्गान्
मां मुञ्च वागुरिक यामि कुरु प्रसादम् ।
सीदन्ति शष्पकवलग्रहणानभिज्ञा
मन्मार्गवीक्षणपराः शिशवो मदीयाः ॥१८७५॥

छित्तिपस्य । (स्व् ६६०, शा।प। ४०१५, सू।मु। ९०।१)