०४४ मृगः

विश्वास-प्रस्तुतिः - १८५६

शान्ते’पि स्वयम् एव दावशिखिनि क्रूरं किराताधिपे
चापं सङ्कलयत्य् अपि श्लथयति व्याधे च तां वागुराम् ।
सारङ्गस्य न पश्यतः सहचरीम् उद्भिन्नबाष्पाम्भसो
निर्दग्धं वपुर् आहतानि परितो मर्माणि रुग्णा गतिः ॥१८५६॥

मूलम् - १८५६

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - १८५७

नादत्से हरिताङ्कुरान् क्वचिद् अपि स्थैर्यं न यद् गाहसे
यत् पर्याकुललोचनो’सि करुणं कूजन् दिशः पश्यसि ।
दैवेनान्तरितप्रियो’सि हरिण क्षामो’सि यत् प्रत्यहं
प्रदद्रि प्रतिकाननं प्रतिनदि प्रयूषरं धावसि ॥१८५७॥

मूलम् - १८५७

केशटस्य । (सु।र। ७५६)

विश्वास-प्रस्तुतिः - १८५८

वन्यैः प्राणिनि काननेषु हरिणस् तद्गात्रवैरी निजः
क्रूरो’रण्यपतिस् तद् अत्र शरणं शान्तो’स्त्य् अदूरे मुनिः ।
इत्य् अस्मिन्न् उपसेदिवान् अयम् असाव् अस्यैव दुर्दैवतो
मा भैषीर् इति भाषणे’प्य् अकरुणो जातो’थ वाचंयमः ॥१८५८॥

मूलम् - १८५८

रत्नमालीयपुण्ड्रोकस्य ।

विश्वास-प्रस्तुतिः - १८५९

नासन्ने’पि ददाति शष्पविपिने क्षामे दृशौ न क्षिपत्य्
अच्चाच्छेषु च निर्झरेषु रसनानालीम् उदन्यातुरः ।
न स्वस्थो बत कौतुकाद् अपि सुहृद्गोष्ठीषु तिष्ठासति
ध्यायन् मेकलकन्यकावनम् अविच्छिन्नाश्रुवेगो मृगः ॥१८५९॥

मूलम् - १८५९

भट्टशालीयपीताम्बरस्य ।

विश्वास-प्रस्तुतिः - १८६०

दुर्गारण्यदरीषु भूरुहघनच्छाये शयालुस् तृणान्य्
आस्वाद्योदरपूरम् अच्छसुलभैर् अम्भोभिर् आप्यायितः ।
एष प्रेङ्खदपाङ्गभङ्गिषु सहाधीती कुरङ्गीदृशां
क्रूरव्याधकुलेषु हन्त पिशितैः स्वैर् इव वैरी मृगः ॥१८६०॥

मूलम् - १८६०

धर्मयोगेश्वरस्य ।