०४१ रिपुः

विश्वास-प्रस्तुतिः - १५७१

यान्त्य् एके परपुष्टतां बलिभुजो भ्राम्यन्ति केचिन् महीं
केचिद् बिभ्रति लावकत्वम् अपरे जाता वने वर्तकाः ।
केचित् खञ्जनकीभवन्ति सततोन्माथप्रमाथैर् अहो
तिर्यक्ताम् अपि लम्भितैस् त्वदरिभिर् लब्धा न पक्षोन्नतिः ॥१५७१॥

मूलम् - १५७१

कस्यचित् । (स्व् २५८२)

विश्वास-प्रस्तुतिः - १५७२

निर्भीकभ्रान्तभोगिन्य् अनलसमशके मांसलध्वान्तराशाव्
आसारक्लिन्नकुड्ये वृषभनिकषणाव् अर्जितद्वारदारौ ।
प्रत्यग्रोदीर्णगर्भे गलति वनगिरिग्रामदेवीगृहान्ते
सन्त्रस्ताः शत्रवस् ते कथम् अपि रजनीं प्रावृषि प्रेरयन्ति ॥१५७२॥

मूलम् - १५७२

योगेश्वरस्य ।

विश्वास-प्रस्तुतिः - १५७३

पद्ब्याम् ऊरुयुगं विभज्य भुजयोर् मध्यं निपीड्योरसा
पार्श्वेषु प्रसभं प्रहृत्य नखरैर् दन्तैर् विलुप्याधरम् ।
संसुप्तान् अवबोध्य युष्मदहितान् भूयो’पि भुङ्क्ते वने
किं कान्ता सुरतैषिणी नहि नहि व्याघ्री करालानना ॥१५७३॥

मूलम् - १५७३

छित्तपस्य । (स।क।आ। ५।५००)

विश्वास-प्रस्तुतिः - १५७४

मौखर्यं वरम् अस्तु देव तद् अपि प्रसूयते विस्मयाद्
ऐश्वर्याणि परित्यजन्ति भवतो नाद्यापि ते वैरिणः ।
मन्यूनां शतम् आचरन्ति कटकं क्रामन्ति भूमीभृतां
पत्रालीं वलयन्ति च स्तनयुगाभोगे कुरङ्गीदृशाम् ॥१५७४॥

मूलम् - १५७४

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - १५७५

पदहीनान् बिलवसतीन्
भुजगान् इव जातभोगसङ्कोचान् ।
व्यथयति मन्त्राक्षरम् इव
नाम तवारीन् वनेचरैर् गीतम् ॥१५७५॥

मूलम् - १५७५

पदहीनान् बिलवसतीन्
भुजगान् इव जातभोगसङ्कोचान् ।
व्यथयति मन्त्राक्षरम् इव
नाम तवारीन् वनेचरैर् गीतम् ॥१५७५॥

दङ्कस्य । (सु।र। १३९३)