०३९ गजः

विश्वास-प्रस्तुतिः - १८३१

अकस्माद् उन्मत्त प्रहरसि किम् अध्वक्षितिरुहं
ह्रदं हस्ताघातैर् विदलसि किम् उत्फुल्लसलिलम् ।
तदा जानीमस् ते करिवर मदोद्गारम् असमं
सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥१८३१॥

मूलम् - १८३१

नारायणस्य । (सु।र। १०७२)

विश्वास-प्रस्तुतिः - १८३२

तापो नापगतस् तृषा न च कृशा धौता न धूली तनोर्
न स्वच्छन्दम् अकारि कन्दकवलः का नाम केलीकथा ।
दूरोन्मुक्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी
प्रारब्धो मधुपैर् अकारणम् अहो झङ्कारकोलाहलः ॥१८३२॥

मूलम् - १८३२

आचार्यगोपीकस्य । (शा।प। ९२३, सू।मु। २३।१०)

विश्वास-प्रस्तुतिः - १८३३

एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं
कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे ।
को नामास्मिन् बत हतवने पादपस् तादृग् उच्चैर्
यस्य च्छायामयम् अधिवसत्य् उष्णरुग्णो गजेन्द्रः ॥१८३३॥

मूलम् - १८३३

कस्यचित् ।

विश्वास-प्रस्तुतिः - १८३४

मध्येविन्ध्यवनं सलीलवसतिः स्वच्छन्दसत्पद्मिनी
कन्दैर् यस्य सदाशितं भवविधिः क्रीडाकरिण्यः शतम् ।
तल्पं शैवलिनीदलानि मिलितो दैवान् मरूणां तटे
जिह्मस् ताम्यति संस्मरन्न् अनुदिनं विन्ध्यं स गन्धद्विपः ॥१८३४॥

मूलम् - १८३४

नरसिंहस्य ।

विश्वास-प्रस्तुतिः - १८३५

जिघृक्षुर् वा मुक्तां दशनम् अथवा हन्ति करिणं
स चाण्डालव्याधो गणयति न लाभापचयिताम् ।
पुराणः प्रत्यग्रं फलम् इह हि विक्रीय कतिचित्
स नागेन्द्रो जीवन् कति कति न लक्षाणि लभते ॥१८३५॥

मूलम् - १८३५

त्रिपुरारिपालस्य ।