०३८ जरत्सिंहः

विश्वास-प्रस्तुतिः - १८२६

शक्तिर् नाक्रमणस्य दन्तनखरं तून्मूलमांसावलि
ग्लानं लोचनम् अन्धम् उद्धतबलिव्यासङ्गशीर्णं वपुः ।
तद् भोः क्रीडत कुञ्जराधिपतयः स्वच्छन्दम् अन्तर् मृगाः
कम्पं मुञ्चत केशरी विधिवशात् प्राप्तो जरादुर्दुशाम् ॥१८२६॥

मूलम् - १८२६

नाकोकस्य ।

विश्वास-प्रस्तुतिः - १८२७

नभसि चरताम् अभोदानां निशम्य रवं मनाग्
अनिभृतगुरुध्वानैर् यस्य प्रभिन्नम् अभूज् जगत् ।
बत परिणतः कालः को’यं करेणुघटाहत
क्षितिरुहम् अटत् कारान् पार्श्वे शृणोति स केशरी ॥१८२७॥

मूलम् - १८२७

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - १८२८

वदनम् अदशनं श्लथा नखानां
परिणतिर् अस्थिरघर्घरो निनादः ।
इति वहति दशापदं मृगेन्द्रे बत
कलभैर् उपभुज्यते तटीयम् ॥१८२८॥

मूलम् - १८२८

वदनम् अदशनं श्लथा नखानां
परिणतिर् अस्थिरघर्घरो निनादः ।
इति वहति दशापदं मृगेन्द्रे बत
कलभैर् उपभुज्यते तटीयम् ॥१८२८॥

तस्यैव ।

विश्वास-प्रस्तुतिः - १८२९

यन्निद्रालसकण्ठनादकलिकां श्रुत्वैव दूराद् इतः
प्रत्येकं स हि मूर्च्छया निपतितो गन्धद्विपानां गणः ।
तस्यैवाद्य मृगाधिपस्य पुरतः प्रोन्मुक्तचण्डस्वना
निष्कम्पं विचरन्ति दुर्दुरवसापानोन्मदाः फेरवाः ॥१८२९॥

मूलम् - १८२९

गोसोकस्य ।

विश्वास-प्रस्तुतिः - १८३०

आस्तां तावद् असीमपौरुषजुषः सम्मानितात्यद्भुत
प्रारम्भाभ्यधिकक्रियस्य स खलु प्राच्यः प्रचारो हरेः ।
जीर्णस्यापि च विन्ध्यकन्दरदरीद्वारावताराक्षमैर्
अङ्गैर् अङ्गभृतो दलन्ति दरतो गन्धेन गन्धद्विपाः ॥१८३०॥

मूलम् - १८३०

वल्लणस्य ।