विश्वास-प्रस्तुतिः - १८२१
नाभ्यस्तम् आक्रमणम् अङ्कुरिता न दंष्ट्रा
स्फीतं न वर्ष्म नखरैर् द्रढिमा न लब्धः ।
नादस् तथापि मृदुर् एव स को’पि सिंह
शावस्य येन विमदाः करिणो भवन्ति ॥१८२१॥
मूलम् - १८२१

विश्वास-प्रस्तुतिः - १८२२
सम्प्राप्य केशरिकिशोरम् अरण्यम् एतद्
इत्य् उद्भयं भ्रमति यूथम् अनेकपानाम् ।
एषो’प्य् अजातसटमंसतटं विधूय
तन् मांसगृध्नुरसतो’पि नखान् नियुङ्क्ते ॥१८२२॥
मूलम् - १८२२

विश्वास-प्रस्तुतिः - १८२३
व्याधूयांसावनुदितसटौ तारमञ्जु ध्वनन्तः
पाणी नातिस्फुटकररुहौ ग्राव्णि कण्डूयमानाः ।
चक्षुः कोपात् कुटिलम् अरूणं बिभ्रतः सिंहशावा
दिष्ट्या चण्डध्वनितजलदं व्योम निर्भालयन्ति ॥१८२३॥
मूलम् - १८२३

विश्वास-प्रस्तुतिः - १८२४
अनुदितसटावंसौ नातिस्फुटाः करजाङ्कुरा
दशनमुकुलोद्भेदः स्तोको मुखे मृदु गर्जितम् ।
मृगपतिशिशोर् नास्त्य् अद्यापि क्रिया स्वकुलोचिता
मदकृतमहागन्धस्यान्ध्यं व्यपोहति दन्तिनाम् ॥१८२४॥
मूलम् - १८२४

तस्यैव ।
विश्वास-प्रस्तुतिः - १८२५
हंहो सिंहकिशोरक त्यजसि चेत् कोपं वदामस् तदा
हत्वैवं करिणां सहस्रम् अखिलं किं लब्धम् आयुष्मता ।
इत्थं कर्तुम् अहं समर्थ इति चेद् धिङ् मूर्ख किं सर्वतो
नालं प्लावयितुं जगज्जलनिधिर् यद् धैर्यम् आलम्बते ॥१८२५॥
मूलम् - १८२५

वीर्यमित्रस्य । (सु।र। १०६०)