विश्वास-प्रस्तुतिः - १५५१
यस्याहवे हयचमूखुरखण्डितोर्वी
पांशुप्रसारपरिपूर्तिभिया वहन्ति ।
नेत्राणि नित्यविकचानि मरुत्तरुण्यो
नीरन्ध्रपाणिपुटयुग्मपिधानवन्ति ॥१५५१॥
मूलम् - १५५१
यस्याहवे हयचमूखुरखण्डितोर्वी
पांशुप्रसारपरिपूर्तिभिया वहन्ति ।
नेत्राणि नित्यविकचानि मरुत्तरुण्यो
नीरन्ध्रपाणिपुटयुग्मपिधानवन्ति ॥१५५१॥
राजशेखरस्य ।
विश्वास-प्रस्तुतिः - १५५२
त्वङ्गत्तुरङ्गमुखरोच्छलितै रजोभिर्
लग्नैर् अजस्रगलदस्रसहस्रनेत्रः ।
पाणिग्रहे समरभूमिजयश्रियस् ते
स्वाराड्यं नृपतिनाथ सहस्रधारः ॥१५५२॥
मूलम् - १५५२
त्वङ्गत्तुरङ्गमुखरोच्छलितै रजोभिर्
लग्नैर् अजस्रगलदस्रसहस्रनेत्रः ।
पाणिग्रहे समरभूमिजयश्रियस् ते
स्वाराड्यं नृपतिनाथ सहस्रधारः ॥१५५२॥
पजोकस्य ।
विश्वास-प्रस्तुतिः - १५५३
त्वङ्गद्वैरिकरीन्द्रकुम्भनिपतन् निस्त्रिंशलेखोल्लसद्
वह्निज्वालतडित्करम्बिततनुर् व्रध्नत्विषो रुन्धती ।
राजंस् तर्पितबर्हिणा सरभसैर् आलोकिता चातकैर्
बलात् त्वद्बलधूलिजालजलदश्रेणी समुत्सर्पति ॥१५५३॥
मूलम् - १५५३
त्वङ्गद्वैरिकरीन्द्रकुम्भनिपतन् निस्त्रिंशलेखोल्लसद्
वह्निज्वालतडित्करम्बिततनुर् व्रध्नत्विषो रुन्धती ।
राजंस् तर्पितबर्हिणा सरभसैर् आलोकिता चातकैर्
बलात् त्वद्बलधूलिजालजलदश्रेणी समुत्सर्पति ॥१५५३॥
सुरभेः ।
विश्वास-प्रस्तुतिः - १५५४
एतत्कृत्तोत्तमाङ्गप्रतिसुभटनटारब्धनाट्याद्भुतानां
कष्टं द्रष्टैव नाभूद् भुवि समरसमालोकिलोकास्पदे’पि ।
अश्वैर् अस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमान
क्ष्मापृष्ठोत्तिष्ठदन्धङ्करणरणधुराधूलिधारान्धकारात् ॥१५५४॥
मूलम् - १५५४

कविपण्डितश्रीहर्षस्य । (न्च् १२।१००)
विश्वास-प्रस्तुतिः - १५५५
मातङ्गाभोदवीथीविकसितमहसि प्रौढसेनापराग
ध्वान्तोद्गारे गरीयस्य् उपनयति मुहुर् विश्वदिङ्मोहमुद्राम् ।
कीरित्र् वेलावनेषु भ्रमति भुजम् अथालम्बते वीरलक्ष्मीर्
देव त्वत्खड्गधारासरणिपरिसरे वैरिणो निष्पतन्ति ॥१५५५॥
मूलम् - १५५५

जलचन्द्रस्य ।