विश्वास-प्रस्तुतिः - १८१६
मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।
तस्य द्वयम् अपि क्रीडा क्रीडादलितदन्तिनः ॥१८१६॥
मूलम् - १८१६
मृगेन्द्रं वा मृगारिं वा हरिं व्याहरतां जनः ।
तस्य द्वयम् अपि क्रीडा क्रीडादलितदन्तिनः ॥१८१६॥
कस्यचित् । (शा।प। ९०१)
विश्वास-प्रस्तुतिः - १८१७
किं जातैर् बहुभिः करोति हरिणी पुत्रैर् अकार्यक्षमैः
पुत्रेणापि वनान्तरे विचलता यैः सार्धम् उत्त्रस्यति ।
एकेनापि करीन्द्रकुम्भदलनव्यापारशक्तात्मना
सिंही दीर्घपराक्रमेण बलिना पुत्रेण गर्वायते ॥१८१७॥
मूलम् - १८१७

भानोः ।
विश्वास-प्रस्तुतिः - १८१८
उत्क्रान्तं गिरिकूटलङ्घनसहं ते वज्रसारा नखास्
तत्तेजश् च तद् ऊर्जितं स च नगोन्माथी निनादो महान् ।
आलस्याद् अविमुञ्चता गिरिगुहां सिंहेन निद्रालुना
सर्वं विश्वजयैकसाधनम् इदं लब्धं न किञ्चित् कृतम् ॥१८१८॥
मूलम् - १८१८

कस्यचित् । (सु।र। १०३५)
विश्वास-प्रस्तुतिः - १८१९
विस्रं वपुः परवधप्रवणं च करम्
तिर्यक्तयैव विदितः सदसद्विवेकः ।
इत्थं न किञ्चिद् अपि चारु मृगाधिपस्य
तेजस् तु तत् किम् अपि येन जगद्वराकम् ॥१८१९॥
मूलम् - १८१९

वसुन्धरस्य । (सु।र। १०९१)
विश्वास-प्रस्तुतिः - १८२०
असञ्ज्ञाः खल्व् एते जलशिखिमरुद्धूसनिचयाः
प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमदः ।
प्रसीद प्रारम्भाद् विरम विनयेथाः क्रुधम् इमां
हरे जीमूतानां ध्वैर् इयम् उदीर्णो न करिणाम् ॥१८२०॥
मूलम् - १८२०

अमरसिंहस्य । (सु।र। १०७१)