०३६ अश्वधूलिः

विश्वास-प्रस्तुतिः - १५४६

यात्रा नेहसि यस्य दिग्विजयिनः काम्बोजवाहावली
विङ्खोल्लेल्खविसर्पिणि क्षितिरजःपूरे वियच् चुम्बति ।
भानोर् वाजिभिर् अङ्गकर्षणरसानन्दः समासादितो
लब्धः किं च नभस्तलामरधुनीपङ्केरुहैर् अन्वयः ॥१५४६॥

मूलम् - १५४६

वसुकल्पस्य । (सु।र। १३८१)

विश्वास-प्रस्तुतिः - १५४७

देव त्वद्विजये तुरङ्गम् अखुरव्रातक्षतक्ष्मातल
प्रोद्भूते परितः परागपटले दिक्चक्रम् आक्रमति ।
अक्ष्णां पङ्क्तिशतानि निन्दति निजं हस्तद्वयं निन्दति
स्वां निन्दत्य् अनिमेषतां परिपतद्बास्पाम्बुधारो हरिः ॥१५४७॥

मूलम् - १५४७

जयोकस्य ।

विश्वास-प्रस्तुतिः - १५४८

वाहव्यूहखुराग्रटङ्कविहतिक्षुण्णक्षमाजन्माभिर्
धूलिभिः पिहिते विहायसि भवत्प्रस्थानकालोत्सवे ।
दिङ्मोहाकुलसूरसूतविपथभ्राम्यत्तुरङ्गावली
दीर्घायुः प्रतिवासरं प्रतिदिशं व्यस्तो रविर् भ्राम्यति ॥१५४८॥

मूलम् - १५४८

महोदधेः । (सु।र। १४४७)

विश्वास-प्रस्तुतिः - १५४९

त्वद्भावावलिटापटङ्कविगलद्भूगोलधूलीभरैर्
उत्पत्यापतयालुभिः स्थलमये जाते’द्य नीराम्बुधौ ।
शङ्के सेतुकथैककर्मठभुजाशौटीरशाखामृगा
हङ्कारस्तुतिभिर् भविष्यति कथं न व्रीडितो मारुतिः ॥१५४९॥

मूलम् - १५४९

हीरोकस्य ।

विश्वास-प्रस्तुतिः - १५५०

सप्ताम्भोधीन् पिबद्भिर् दिशि दिशि सरितः स्वादयद्भिस् तडाग
व्यूहं गण्डूषयद्भिर् गगनतलगतां जाह्न्वईम् उल्लिहद्भिः ।
यात्रायां यस्य हेलाचलतुरगचमूशश्वदुद्धूतधूली
पूरैर् ऐकाब्धिमात्रव्ययजनितमदो लज्जितः कुम्भजन्मा ॥१५५०॥

मूलम् - १५५०

छित्तपस्य ।