०३५ शरभः

विश्वास-प्रस्तुतिः - १८११

उन्मुक्तक्रमहारिशैलशिखरात् क्रामन्तम् अन्यो धरः
को’त्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्माद् उद्गमकेलिलङ्घनकलाद् उर्वीतलाद् उद्व्रज
त्वद्वासाय स एव कीर्तिकनकज्योत्स्नो गिरीणां पतिः ॥१८११॥

मूलम् - १८११

वल्लणस्य । (सु।र। १०५६)

विश्वास-प्रस्तुतिः - १८१२

यस्यानुद्धुरगन्धवातकणिकातङ्कार्तिनानादरी
कोणोदञ्चदुरोनिगूहितशिरःपुच्छा हरीणां गणाः ।
दृप्यद्दुर्जयगन्धसिन्धुरजयोत्खातेन का मे स्तुतिः
स्मेरो’यं शरभः परां हृदि घृणाम् आयाति जातस्मयः ॥१८१२॥

मूलम् - १८१२

तस्यैव । (सु।र। १०४६)

विश्वास-प्रस्तुतिः - १८१३

अपि मृगपतिना करीन्द्रकुम्भस्थल
दलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टम् उच्चैः
स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥

मूलम् - १८१३

अपि मृगपतिना करीन्द्रकुम्भस्थल
दलनोद्गतपौरुषेण यस्य ।
भयचकितदृशा प्रनष्टम् उच्चैः
स हि शरभीकुलराजचक्रवर्ती ॥१८१३॥

माधवस्य ।

विश्वास-प्रस्तुतिः - १८१४

यः पृथ्वीवलयेषु विर्कमकथासीमास्थितिर् लाघव
क्रीडान्यक्कृतमारुतिर् मृगपतेर् निःसीमदर्पज्वरः ।
तादृक् तादृग् उदञ्चदञ्चितचयैर् आश्चर्यकारी दिशाम्
ईशानां सरभः कथं स हि भवेद् अर्वाग् गिरां गोचरः ॥१८१४॥

मूलम् - १८१४

मकरन्दस्य ।

विश्वास-प्रस्तुतिः - १८१५

नखज्योत्स्नागुच्छस्नपितगजगण्डस्थलभिदां
मृगेन्द्राणां जेतुस् तव समरभूमिषु शतशः ।
हते वा नीते वा बत लघुतरां शोच्यपदवीं
शुनीनां नाथे’स्मिन् सरभ रभसस्यानवसरः ॥१८१५॥

मूलम् - १८१५

कस्यचित् ।