विश्वास-प्रस्तुतिः - १५३६
हेरम्बध्वनिडम्बरप्रतिनिधिः क्रीडन्नृपञ्चानन
क्ष्वेडोत्पीडसुहृन्नदीपतिनदद्वेलोमिगर्जासखः ।
संवर्ताम्बुदवृन्दमन्दरसितस्पर्धी तवायं मृधे
शत्रुश्रोत्रदरीषु मूर्च्छति चमूभेरीरवो भैरवः ॥१५३६॥
मूलम् - १५३६

हरेः ।
विश्वास-प्रस्तुतिः - १५३७
देव त्वद्विजयप्रयाणसमये ढक्का हताः सैनिकैर्
मन्द्रं दध्वनुरद्रिकुक्षिषु जरत्पारीन्द्रनिद्राद्रुहः ।
तन्वाना मलयाद्रिषु प्रतिरवं ध्यानक्षतिं योगिषु
क्रोधं दिक्करिषु प्रकम्पम् अरिषु त्रासं रवेर् वाजिषु ॥१५३७॥
मूलम् - १५३७

कस्यचित् ।
विश्वास-प्रस्तुतिः - १५३८
गुञ्जत्क्रौञ्चनिकुञ्जकुञ्जरघटाविस्तीर्णकर्णज्वराः
प्राक्प्रत्यग्धरणीन्द्रकन्दरजरत्पारीन्द्रनिद्राद्रुहः ।
लङ्काङ्क त्रिककुत्प्रतिध्वनिघनाः पर्यन्तयात्राजये
यस्य भ्रेमुरमन्दमन्दररवैर् आशारुधो घोषणाः ॥१५३८॥
मूलम् - १५३८

जयदेवस्य । (सु।र। १५६७)
विश्वास-प्रस्तुतिः - १५३९
यस्याविर्भूतभीतिप्रतिभटपृतनागर्भिणीभ्रूणभार
भ्रंशभ्रेशाभिभूत्यै प्लवनम् इव भजन्न् अम्भसाम्भोनिधीनाम् ।
सम्भारं सम्भ्रमस्य त्रिभुवनम् अभितो भूभृतां बिभ्रद् उच्चैः
संरम्भोज्जृम्भणाय प्रतिरणम् अभवद् भूरिभेरीनिनादः ॥१५३९॥
मूलम् - १५३९

तस्यैव ।
विश्वास-प्रस्तुतिः - १५४०
विघट्टयन्न् एष हठाद् अकुण्ठ
वैकुण्ठकण्ठीरवकण्ठगर्जाम् ।
भयङ्करो दिक्करिणां रणाग्रे
भेरीरवो भैरवदुःश्रवस् ते ॥१५४०॥
मूलम् - १५४०
विघट्टयन्न् एष हठाद् अकुण्ठ
वैकुण्ठकण्ठीरवकण्ठगर्जाम् ।
भयङ्करो दिक्करिणां रणाग्रे
भेरीरवो भैरवदुःश्रवस् ते ॥१५४०॥
तस्यैव ।