विश्वास-प्रस्तुतिः - १८०६
किं तेन हेमगिरिणा रजताद्रिणा वा
यत्र स्थिता हि तरवस् तरवस् त एव ।
वन्दामहे मलयम् एव यदाश्रयेण
शाकोटनिम्बकुटजा अपि चन्दनानि ॥१८०६॥
मूलम् - १८०६
किं तेन हेमगिरिणा रजताद्रिणा वा
यत्र स्थिता हि तरवस् तरवस् त एव ।
वन्दामहे मलयम् एव यदाश्रयेण
शाकोटनिम्बकुटजा अपि चन्दनानि ॥१८०६॥
कस्यचित् (स्व् १००६)
विश्वास-प्रस्तुतिः - १८०७
चम्पकतरुणा सार्धं
स्पर्धा शाकोटकस्य युक्तैव ।
अस्मिन् मलयमहीभृति
सर्वे किल चन्दनं तरवः ॥१८०७॥
मूलम् - १८०७
चम्पकतरुणा सार्धं
स्पर्धा शाकोटकस्य युक्तैव ।
अस्मिन् मलयमहीभृति
सर्वे किल चन्दनं तरवः ॥१८०७॥
मुष्टिकस्य ।
विश्वास-प्रस्तुतिः - १८०८
मातङ्गाच् छतशः पुषाण शतशो व्यालीसुतान् संवृणु
प्रीणीथाः शतशस् तु गण्टदृषदः श्रीखण्डशैलेच्छया ।
आस्वर्गस्थलम् आमहीतलम् अथापातालम् आविष्कृतं
त्वत्कीर्तिस् तु न चन्दनक्षितिरुहाद् अन्यः समालोक्यते ॥१८०८॥
मूलम् - १८०८
मातङ्गाच् छतशः पुषाण शतशो व्यालीसुतान् संवृणु
प्रीणीथाः शतशस् तु गण्टदृषदः श्रीखण्डशैलेच्छया ।
आस्वर्गस्थलम् आमहीतलम् अथापातालम् आविष्कृतं
त्वत्कीर्तिस् तु न चन्दनक्षितिरुहाद् अन्यः समालोक्यते ॥१८०८॥
भट्टवेतालस्य ।
विश्वास-प्रस्तुतिः - १८०९
भ्रातश् चन्दनशैल मुञ्च जडतां विस्तारयन् सौरभं
गच्छन्न् एव विलासिभिर् मरुद् अयं निर्वाजम् आलिङ्ग्यताम् ।
तिष्ठन्न् एव पटीरकोटरदरीदर्वीकरोत्तम्भित
स्फारोत्फुल्लफणासहस्रचुलुकग्रासेन निर्वर्त्यते ॥१८०९॥
मूलम् - १८०९
भ्रातश् चन्दनशैल मुञ्च जडतां विस्तारयन् सौरभं
गच्छन्न् एव विलासिभिर् मरुद् अयं निर्वाजम् आलिङ्ग्यताम् ।
तिष्ठन्न् एव पटीरकोटरदरीदर्वीकरोत्तम्भित
स्फारोत्फुल्लफणासहस्रचुलुकग्रासेन निर्वर्त्यते ॥१८०९॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १८१०
इतस् तावन् नेत्रे वलय मलयाद्रे निधिर् अपाम्
अपारस् त्वत्पादप्रणयपरतन्त्रो निवसति ।
अथात्मानं किं न स्मरसि कुलशैलं किम् अयशः
पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥१८१०॥
मूलम् - १८१०
इतस् तावन् नेत्रे वलय मलयाद्रे निधिर् अपाम्
अपारस् त्वत्पादप्रणयपरतन्त्रो निवसति ।
अथात्मानं किं न स्मरसि कुलशैलं किम् अयशः
पताका सर्पौघैः प्रतिशिखरिशाखासु वहसि ॥१८१०॥
वसुकल्पस्य ।