०३३ भोगावली

विश्वास-प्रस्तुतिः - १५३१

राजन्न् उद्दामनिद्राभरविवशभुजावल्लरीणाम् इदानीं
विश्राम्यन्तु त्वदन्तःपुरहरिणदृशां चामरभ्रामणानि ।
सेवन्ते देवम् एते तुहिनकणभृतः सौधजालान्तराल
प्राप्ताः प्रत्यग्रजाग्रन्नलिनवनरजोग्राहिणो गन्धवाहाः ॥१५३१॥

मूलम् - १५३१

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १५३२

भिन्दानः सुन्दरीणां पतिषु रुषमयं हर्म्यपारावतानां
वाचालत्वं दधानः कवितृषु च गुणं प्रातिभं सन्दधानः ।
प्रातस् त्यस् तूर्यघोषः स्थगयति गगनं मांसलः पांशुतल्पाद्
अस्वल्पाद् उत्थितानां नरवर करिणां शृङ्खलशिञ्जितेन ॥१५३२॥

मूलम् - १५३२

राजशेखरस्य । (वि।शा।भ। १।१२, स्व् २२२३, शा।प। ३७२२)

विश्वास-प्रस्तुतिः - १५३३

निद्राजिह्मदृशः सखीष्व् अपि सवैलक्ष्या नखाङ्कव्रण
व्यादष्टांशुखलेखया प्रतिपदं सीत्कारिवक्त्रेन्दवः ।
त्वत्सेवासमुपागतक्षितिभुजां निर्यान्ति लीलागृहाद्
एताः प्रौढरतिश्रमप्रशिथिलैर् अङ्गैः कुरङ्गीदृशः ॥१५३३॥

मूलम् - १५३३

धोयीकस्य ।

विश्वास-प्रस्तुतिः - १५३४

अम्लानस्तवकन्ति कुन्तलभरे सीमन्तसीमास्विमाः
सिन्दूरन्ति कपोलभित्तिषु मिलन्मैरेयरागन्ति च ।
प्रौढेर्ष्याद्युतिविश्रमन्ति नयनोपान्ते कुरङ्गीदृशः
बिम्बोष्ठे क्षितिपाल बालतरणेर् लाक्षारसन्ति त्विषः ॥१५३४॥

मूलम् - १५३४

साञ्चाधरस्य ।

विश्वास-प्रस्तुतिः - १५३५

उत्कर्णं करिणां गणेन विकसन् मोदं चिराद् बर्हिभिः
क्रीडाकेशरिभिश् च पञ्जरगतैः कोपस्फुरल्लोचनम् ।
कुञ्जोत्सङ्गभुवि प्रकम्पतरलं सीमन्तिनीभिः क्षणात्
पीतः श्रोत्रपुटेन देव परितः प्रातर् मृदङ्गध्वनिः ॥१५३५॥

मूलम् - १५३५

तस्यैव ।