विश्वास-प्रस्तुतिः - १७९६
त्वं त्यक्त्वा मकरन्दमन्दिरम् अमुं फुल्लारविन्दाकरं
चुम्बन् नूतनकेतकीं प्रतिमुहुर् यत् कण्टकैः कीलितः ।
उद्भ्रान्तस्य मलीमसस्य मुखरस्योन्मत्तचित्तस्य ते
रे रे चञ्चलचञ्चरीक तद् इदं कर्मानुरूपं फलम् ॥१७९६॥
मूलम् - १७९६

अज्जोकस्य ।
विश्वास-प्रस्तुतिः - १७९७
त्यक्त्वा सरोजमधुपानरसं च रम्यं
यद् धावितो’सि कुसुमं प्रति केतकीनाम् ।
अस्यैव ते फलम् अहो अनयस्य भूतं
किं खिद्यसे मधुप कण्टकविद्धपक्षः ॥१७९७॥
मूलम् - १७९७
त्यक्त्वा सरोजमधुपानरसं च रम्यं
यद् धावितो’सि कुसुमं प्रति केतकीनाम् ।
अस्यैव ते फलम् अहो अनयस्य भूतं
किं खिद्यसे मधुप कण्टकविद्धपक्षः ॥१७९७॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १७९८
पत्राणि कण्टकसहस्रदुरासदानि
वार्तापि नास्ति मधुनो रजसान्धकारम् ।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणानि ॥१७९८॥
मूलम् - १७९८
पत्राणि कण्टकसहस्रदुरासदानि
वार्तापि नास्ति मधुनो रजसान्धकारम् ।
आमोदमात्ररसिकेन मधुव्रतेन
नालोकितानि तव केतकि दूषणानि ॥१७९८॥
सरस्वत्याः । (शा।प। १०१२)
विश्वास-प्रस्तुतिः - १७९९
हित्वा तन्मधुसद्मपद्मविपिनं सौरभ्यमात्राहृतः
किं रे भृङ्ग मुधैव धावसि मधुप्रत्याशया केतकीः ।
एताः कण्टककोटिसङ्कटदलद्दोणीपुटोत्पीडितं
गर्भं बिभ्रति धूलिजालकलिलैर् आपूरितं केशरैः ॥१७९९॥
मूलम् - १७९९
हित्वा तन्मधुसद्मपद्मविपिनं सौरभ्यमात्राहृतः
किं रे भृङ्ग मुधैव धावसि मधुप्रत्याशया केतकीः ।
एताः कण्टककोटिसङ्कटदलद्दोणीपुटोत्पीडितं
गर्भं बिभ्रति धूलिजालकलिलैर् आपूरितं केशरैः ॥१७९९॥
नरसिंहस्य ।
विश्वास-प्रस्तुतिः - १८००
आमोदो बहलः शशाङ्ककिरणच्छायो दलानां चयो
मृद्वी केशरसंहृतिर् मलयजक्षोदोपमा रेणवः ।
केतक्याः कुसुमस्य साधु सकलं दोषस् त्व् अयं केवलं
बिद्धा न प्रविशन्ति यन् मधुलिहो द्वारि स्थितैः कण्टकैः ॥१८००॥
मूलम् - १८००
आमोदो बहलः शशाङ्ककिरणच्छायो दलानां चयो
मृद्वी केशरसंहृतिर् मलयजक्षोदोपमा रेणवः ।
केतक्याः कुसुमस्य साधु सकलं दोषस् त्व् अयं केवलं
बिद्धा न प्रविशन्ति यन् मधुलिहो द्वारि स्थितैः कण्टकैः ॥१८००॥
कस्यचित् ।