०३१ चूतभ्रमरः

विश्वास-प्रस्तुतिः - १७९१

धन्यस् त्वं सहकार सम्प्रति फलैः काकान् शुकान् पूरयन्
पूर्वं तु त्वयि मुक्तमञ्जरिभरोन्निद्रे य इन्दिन्दरः ।
आक्रीडन्न् अनिशं स नैति फलितं यत् त्वां विकशैकभुक्
तद्धर्मो’स्य फलाशया परिचयः कल्पद्रुमे’प्य् अस्ति किम् ॥१७९१॥

मूलम् - १७९१

वल्लभस्य । (सु।र। ११०३)

विश्वास-प्रस्तुतिः - १७९२

निश्चेत्तुं मकरन्दबिन्दुजनितानन्दारविन्दाकर
क्रीडानिःस्पृहयालुमानसतया मन्दायमानादरः ।
स्फारोद्गच्छदपूर्वमञ्जरिभरप्रादुर्भवत्सौरभं
श्रद्धालुर् न कथं प्रयातु सहसा माकन्दम् इन्दिन्दरः ॥१७९२॥

मूलम् - १७९२

तस्यैव ।

विश्वास-प्रस्तुतिः - १७९३

अयम् इह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
असरलम् अरसम् असारं शाखोटकविटपम् अनुसरति ॥१७९३॥

मूलम् - १७९३

अयम् इह मुग्धो मधुपः परिहृतसहकारमञ्जरीपुञ्जः ।
असरलम् अरसम् असारं शाखोटकविटपम् अनुसरति ॥१७९३॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १७९४

स्वादयन्तु चिरं नाम कोकिलाश् चूतकोरकान् ।
तादृक् परिमलं वेत्ति यदि धन्यो मधुव्रतः ॥१७९४॥

मूलम् - १७९४

स्वादयन्तु चिरं नाम कोकिलाश् चूतकोरकान् ।
तादृक् परिमलं वेत्ति यदि धन्यो मधुव्रतः ॥१७९४॥

वसुकल्पस्य ।

विश्वास-प्रस्तुतिः - १७९५

वसन्ते सन्त्य् एव प्रतिवनम् अनिद्रालुसुमनो
मनोज्ञप्रारम्भा मधुरमधुसम्भारसुहृदः ।
परोलक्षा वृक्षाः परम् इह रसालेषु रसिकः
सलीलं रोलम्बः पिबति मधुसारं सरभसः ॥१७९५॥

मूलम् - १७९५

वनमालिनः ।