विश्वास-प्रस्तुतिः - १७८१
मीलन्तु पङ्कजवनानि दलन्तु वृक्षाः
शुष्यन्तु दानसरितः करिणां कपोले ।
ते’मी वयं मधुलिहो भगवान् स येभ्यः
पातुं समर्पयति गण्डतटं गजास्यः ॥१७८१॥
मूलम् - १७८१
मीलन्तु पङ्कजवनानि दलन्तु वृक्षाः
शुष्यन्तु दानसरितः करिणां कपोले ।
ते’मी वयं मधुलिहो भगवान् स येभ्यः
पातुं समर्पयति गण्डतटं गजास्यः ॥१७८१॥
वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - १७८२
नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः ।
वैवादवनिम् उपेतः कौटजकुसुमेषु समीहते वृत्तिम् ॥१७८२॥
मूलम् - १७८२
नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्दः ।
वैवादवनिम् उपेतः कौटजकुसुमेषु समीहते वृत्तिम् ॥१७८२॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १७८३
छायाशीतलितात् सकाञ्चनशिलोत्खेलत्कृतार्थार्थिनस्
तत्तन्निर्मितचित्रमञ्जरिगृहात् क्रीडामिलत् खेचरात् ।
घ्रात्वाप्य् अद्भुतसौरभोरुलहरीः कल्पद्रुमान् नैव यद्
वेगाद् धावति मञ्जु गुञ्जति परं तत् को’यम् इन्दिन्दरः ॥१७८३॥
मूलम् - १७८३

बल्लनस्य ।
विश्वास-प्रस्तुतिः - १७८४
अनभिलषतः श्रीलीलाब्जे परागविलेपनं
त्रिदशकरिणः पातुं दानप्रवाहम् अवाञ्छतः ।
त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः
सखे बत खलु शिवा सन्तुष्टस्य द्विरेफ तव स्थितिः ॥१७८४॥
मूलम् - १७८४
अनभिलषतः श्रीलीलाब्जे परागविलेपनं
त्रिदशकरिणः पातुं दानप्रवाहम् अवाञ्छतः ।
त्रिदशसुमनोगन्धासक्तिं विमुक्तवतः
सखे बत खलु शिवा सन्तुष्टस्य द्विरेफ तव स्थितिः ॥१७८४॥
मङ्गलस्य ।
विश्वास-प्रस्तुतिः - १७८५
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवम् अपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति
स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥१७८५॥
मूलम् - १७८५
निरानन्दः कौन्दे मधुनि विधुरो बालबकुले
रसाले सालम्बो लवम् अपि लवङ्गे न रमते ।
प्रियङ्गौ नासङ्गं रचयति न चूते विचरति
स्मरन् लक्ष्मीलीलाकमलमधुपानं मधुकरः ॥१७८५॥
छित्तपस्य । (स।क।आ। १।८१, सू।मु। १९।८)