०२८ भ्रमरः

विश्वास-प्रस्तुतिः - १७७६

शाखिनि शाखिनि कुसुमं
कुसुमे कुसुमे मधुकरकुलानि ।
विरलं सन् मधु कुसुमं
विरलो रसतत्त्वविन् मधुपः ॥१७७६॥

मूलम् - १७७६

शाखिनि शाखिनि कुसुमं
कुसुमे कुसुमे मधुकरकुलानि ।
विरलं सन् मधु कुसुमं
विरलो रसतत्त्वविन् मधुपः ॥१७७६॥

वीरस्य ।

विश्वास-प्रस्तुतिः - १७७७

अन्यासु तावद् उपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुघ्दाम् अजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥१७७७॥

मूलम् - १७७७

अन्यासु तावद् उपमर्दसहासु भृङ्ग
लोलं विनोदय मनः सुमनोलतासु ।
मुघ्दाम् अजातरजसं कलिकामकाले
व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥१७७७॥

विद्यापतेः । (कुवल्। ८९, द।रू॥ उन्देर् ४।३३, सा।द॥ ३।१७७)

विश्वास-प्रस्तुतिः - १७७८

मधुकरगणश् चूतं त्यक्त्वा गत् नवमालिकां
पुनर् अपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तद् अपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं
परिचितगुणद्वेषी लोको नवं नवम् ईहते ॥१७७८॥

मूलम् - १७७८

मधुकरगणश् चूतं त्यक्त्वा गत् नवमालिकां
पुनर् अपि गतो रक्ताशोकं कदम्बतरुं ततः ।
तद् अपि सुचिरं स्थित्वा कुन्दे प्रयाति सरोरुहं
परिचितगुणद्वेषी लोको नवं नवम् ईहते ॥१७७८॥

कस्यचित् । (स्व् ७४०, शा।प। ८२९)

विश्वास-प्रस्तुतिः - १७७९

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सो’यं भृङ्गयुवा करीरविटपे बध्नाति दृष्टिं कुतः ॥१७७९॥

मूलम् - १७७९

येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी ।
भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां
सो’यं भृङ्गयुवा करीरविटपे बध्नाति दृष्टिं कुतः ॥१७७९॥

कस्यचित् । (शा।प। ८३७)

विश्वास-प्रस्तुतिः - १७८०

अशोके शोकार्तः किम् असि बकुले’प्य् आकुलमना
निरानन्दः कुन्दे सह च सहकारैर् न रमसे ।
कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर्
असन्दिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥१७८०॥

मूलम् - १७८०

अशोके शोकार्तः किम् असि बकुले’प्य् आकुलमना
निरानन्दः कुन्दे सह च सहकारैर् न रमसे ।
कुसुम्भे विश्रम्भं यद् इह भजसे कण्टकशतैर्
असन्दिग्धं दग्धभ्रमर भवितासि क्षतवपुः ॥१७८०॥

कस्यचित् । (सु।र। १०७४)