०२७ सेना

विश्वास-प्रस्तुतिः - १५०१

भूर्भूपालचमूपदेउ गगनं सेनारजोराजिउं
श्रान्तद्वेइकलेवरेउ मरुतो नौकातलेव् अब्धयः ।
तेजस् तेजसि लीनम् अस्तु भवतः किन्त्व् अन्यद् आचक्ष्महे
सृष्टिः स्रष्टुर् इहास्तम् एष्यति महाभूतैर् विना पञ्चभिः ॥१५०१॥

मूलम् - १५०१

श्रीकण्ठस्य ।

विश्वास-प्रस्तुतिः - १५०२

नित्यं निस्तृणपल्लवे पथि निरालम्बे व्रजन् वाजिभिः
खिन्नखिन्नतुरङ्गकरुणाकृष्टो विवस्वानयन् ।
यायाद् अप्य् अवतीर्य निर्जरपथाद् एषा समन्तान् न चेद्
अद्य त्वद्गजतागलन् मदजलैर् जम्बालिनी मेदिनी ॥१५०२॥

मूलम् - १५०२

करञ्जयोगेश्वरस्य ।

विश्वास-प्रस्तुतिः - १५०३

त्वत्सैन्यग्लपितस्य पन्नगपतेर् अच्छिन्नधाराक्रमं
विस्फारायतशालिनि प्रतिफणं फेनाम्भसि भ्रश्यति ।
देव क्ष्मावलयप्रभो फणिकुलैः प्रत्यग्रम् एकोत्तर
स्थूलस्तम्भसहस्रधारितम् इव क्ष्माचक्रम् आलोक्यते ॥१५०३॥

मूलम् - १५०३

वसुकल्पस्य । (सु।र। १४२५)

विश्वास-प्रस्तुतिः - १५०४

शेषं क्लेशयितुं दिशः स्थगयितुं पेष्टुं धरित्रीभृतः
सिन्धून् धूलिभरेण कर्दमयितुं तैर् एव रोद्धुं नभः ।
नासीरे च मुहुर् मुहुश् चलचलेत्य् आलापकोलाहलान्
कर्तुं नाथ वरुथिनीयम् अवनीं जेतुं पुनस् त्वद्भुजौ ॥१५०४॥

मूलम् - १५०४

तस्यैव । (सु।र। १४२६)

विश्वास-प्रस्तुतिः - १५०५

अहो स्थैर्यं तेषां प्रकृतिनियमेभ्यः सुकृतिनां
प्रतिज्ञातत्यागो नहि भवति कृच्छ्रे’पि महति ।
तथा हि त्वत्सेनाभरनमितधात्रीभरदलत्
कटाहो’पि स्वाङ्गं किम् उ कमठनाथश् चलयति ॥१५०५॥

मूलम् - १५०५