०२६ नौका

विश्वास-प्रस्तुतिः - १४९६

भृङ्गैर् नाविकसन्निभैः परिगतं शुद्धान्तवामभ्रुवां
कर्णभ्रष्टम् अवेक्ष्य केतकदलं वापीजले सन्तरत् ।
श्रीमत्साहसमल्लवीर भवतो नौसार्थम् अन्तः स्मरन्न्
उत्त्रस्तो’द्य पुनः करोति सलिलक्रीडां न गौडाधिपः ॥१४९६॥

मूलम् - १४९६

भृङ्गैर् नाविकसन्निभैः परिगतं शुद्धान्तवामभ्रुवां
कर्णभ्रष्टम् अवेक्ष्य केतकदलं वापीजले सन्तरत् ।
श्रीमत्साहसमल्लवीर भवतो नौसार्थम् अन्तः स्मरन्न्
उत्त्रस्तो’द्य पुनः करोति सलिलक्रीडां न गौडाधिपः ॥१४९६॥

वसुकल्पस्य ।

विश्वास-प्रस्तुतिः - १४९७

जितपवनजवाभिर् नौभिर् आस्कन्द्य सद्यस्
त्रिदिवम् अपि विजेतुं नाक्षमः क्षत्रियो’यम् ।
यदि न शिरसि भर्गः स्वर्गिणां भागधेयैर्
दधदमरधुनीं स्याद् अन्तराले’न्तरायः ॥१४९७॥

मूलम् - १४९७

जितपवनजवाभिर् नौभिर् आस्कन्द्य सद्यस्
त्रिदिवम् अपि विजेतुं नाक्षमः क्षत्रियो’यम् ।
यदि न शिरसि भर्गः स्वर्गिणां भागधेयैर्
दधदमरधुनीं स्याद् अन्तराले’न्तरायः ॥१४९७॥

शुङ्गोकस्य ।

विश्वास-प्रस्तुतिः - १४९८

नौकाभिनीतजलकेलिषु केनिपात
पातोच्छलत्सलिलशीकरसञ्चयेन ।
देव त्वया विरचितो नभसि प्रगल्भ
वाचालवीचिवलितः प्रचलः पयोधिः ॥१४९८॥

मूलम् - १४९८

नौकाभिनीतजलकेलिषु केनिपात
पातोच्छलत्सलिलशीकरसञ्चयेन ।
देव त्वया विरचितो नभसि प्रगल्भ
वाचालवीचिवलितः प्रचलः पयोधिः ॥१४९८॥

हरिवंशस्य ।

विश्वास-प्रस्तुतिः - १४९९

नखाङ्कं नारीणाम् अनिललुलितं केतकदलं
कलाम् इन्दोः पत्रं परिणतिविशीर्णजलरुहाम् ।
निरीक्षन्ते यस्य द्रुतमिलितनौकाटकघटा
हठाकृष्टिभ्रष्टाश् चकितम् इव काशीजनपदाः ॥१४९९॥

मूलम् - १४९९

नखाङ्कं नारीणाम् अनिललुलितं केतकदलं
कलाम् इन्दोः पत्रं परिणतिविशीर्णजलरुहाम् ।
निरीक्षन्ते यस्य द्रुतमिलितनौकाटकघटा
हठाकृष्टिभ्रष्टाश् चकितम् इव काशीजनपदाः ॥१४९९॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १५००

नौकानिर्गमकेनिपातपतनोदञ्चत्पयोबिन्दुभिर्
धारालापैर् विपरीतवृष्टिषु कथावृद्धो न वृद्धश्रवाः ।
किं च द्वेषिपुरे पुरन्दरपुरीवस्त्राञ्चलीकुङ्कुम
क्षोदक्षालनवारिपातरुधिरभ्रान्तो जनस् ताम्यति ॥१५००॥

मूलम् - १५००

नौकानिर्गमकेनिपातपतनोदञ्चत्पयोबिन्दुभिर्
धारालापैर् विपरीतवृष्टिषु कथावृद्धो न वृद्धश्रवाः ।
किं च द्वेषिपुरे पुरन्दरपुरीवस्त्राञ्चलीकुङ्कुम
क्षोदक्षालनवारिपातरुधिरभ्रान्तो जनस् ताम्यति ॥१५००॥

नरसिंहस्य ।