विश्वास-प्रस्तुतिः - १७६१
छिद्रानुसारनिपुणत्वम् इदं त्वदीयं
दृष्ट्वा गतौ कुटिलतां वदने विषं च ।
मन्ये सरीसृâ भवानुचितं मनुष्य
प्राणापहारविषये विधिना नियुक्तः ॥१७६१॥
मूलम् - १७६१
छिद्रानुसारनिपुणत्वम् इदं त्वदीयं
दृष्ट्वा गतौ कुटिलतां वदने विषं च ।
मन्ये सरीसृâ भवानुचितं मनुष्य
प्राणापहारविषये विधिना नियुक्तः ॥१७६१॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - १७६२
एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद्
आस्ये निजाङ्गुलिमयं खलु को’पि सर्पः ।
अत्रैव यस्य विषमेण विषेण दग्धास्
ते त्वादृशा निरसवः पतिताः सहस्रम् ॥१७६२॥
मूलम् - १७६२
एतस्य जाङ्गुलिक नार्पय मन्त्रदर्पाद्
आस्ये निजाङ्गुलिमयं खलु को’पि सर्पः ।
अत्रैव यस्य विषमेण विषेण दग्धास्
ते त्वादृशा निरसवः पतिताः सहस्रम् ॥१७६२॥
नाचोकस्य ।
विश्वास-प्रस्तुतिः - १७६३
यद् वीक्षसे शिखिम् अग्निभुवः सहेलं
यद् वा विलोकयसि तार्क्ष्यम् अवज्ञयैव ।
लीढौषधिपरिवृढो’सि यदृच्छया तद्
वन्दामहे हरभुजङ्ग तवैव जन्म ॥१७६३॥
मूलम् - १७६३
यद् वीक्षसे शिखिम् अग्निभुवः सहेलं
यद् वा विलोकयसि तार्क्ष्यम् अवज्ञयैव ।
लीढौषधिपरिवृढो’सि यदृच्छया तद्
वन्दामहे हरभुजङ्ग तवैव जन्म ॥१७६३॥
वदियगदाधरस्य ।
विश्वास-प्रस्तुतिः - १७६४
अलम् अभिमुखैर् बद्धैर् भोगैर् अलं भ्रमिभिर्
दृशोर् अलम् अविरलैर् गर्जोद्गारैर् अलं विषवृष्टिभिः ।
किम् इह भुजगाः कोपावेगैर् अमीभिर् अमुद्रितैर्
ननु भगवतस् तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥१७६४॥
मूलम् - १७६४
अलम् अभिमुखैर् बद्धैर् भोगैर् अलं भ्रमिभिर्
दृशोर् अलम् अविरलैर् गर्जोद्गारैर् अलं विषवृष्टिभिः ।
किम् इह भुजगाः कोपावेगैर् अमीभिर् अमुद्रितैर्
ननु भगवतस् तार्क्ष्यस्यैते वयं स्तुतिपाठकाः ॥१७६४॥
तस्यैव ।
विश्वास-प्रस्तुतिः - १७६५
क्षुद्रास् ते भुजगाः शिरांसि नमयत्य् आदाय येषाम् इदं
भ्रातर् जाङ्गुलिक त्वदाननमिलन्मन्त्रानुबिद्धं रजः ।
जीर्णस् त्व् एष फणी न यस्य किम् अपि त्वादृग्गुणीन्द्रव्रजा
कीर्णक्ष्मातलधावनाद् अपि भजत्य् आनम्रभावं शिरः ॥१७६५॥
मूलम् - १७६५

उमापतिधरस्य ।