विश्वास-प्रस्तुतिः - १४९१
आकर्षन्न् इव गां वमन्न् इव खुरान् पश्चार्धम् उज्झन्न् इव
स्वीकुर्वन्न् इव खं पिबन्न् इव दिशश् छायाम् अमर्षन्न् इव ।
साङ्गारप्रकरां स्पृशन्न् इव धरां वातं सम् अश्नन्न् इव
श्रीमन्नाथ स वाजिराट् तव कथं मादृग्गिरां गोचरः ॥१४९१॥
मूलम् - १४९१

छित्तपस्य । (स्व् २४१९, शा।प। ५८३)
विश्वास-प्रस्तुतिः - १४९२
कियत् पदं विष्णुपदं मम क्रमे
धरा वराकी च पयोधिरोधिता ।
इतीव हेलाविनतोरुकन्धरः
करोत्य् अयं मण्डलिकारयं हयः ॥१४९२॥
मूलम् - १४९२
कियत् पदं विष्णुपदं मम क्रमे
धरा वराकी च पयोधिरोधिता ।
इतीव हेलाविनतोरुकन्धरः
करोत्य् अयं मण्डलिकारयं हयः ॥१४९२॥
हरिदत्तस्य । (सू।मु। १०२।१)
विश्वास-प्रस्तुतिः - १४९३
प्रयातुम् अस्माकम् इयं कियत् पदं
धरा तदम्भोधिर् अपि स्थलायताम् ।
इतीव वाहैर् निजवेगदर्पितैः
पयोधिरोधक्षमम् अद्भुतं रजः ॥१४९३॥
मूलम् - १४९३
प्रयातुम् अस्माकम् इयं कियत् पदं
धरा तदम्भोधिर् अपि स्थलायताम् ।
इतीव वाहैर् निजवेगदर्पितैः
पयोधिरोधक्षमम् अद्भुतं रजः ॥१४९३॥
श्रीहर्षस्य । (न्च् १।६९, सू।मु। १०२।८)
विश्वास-प्रस्तुतिः - १४९४
धूलीभिर् दिवम् अन्धयन्वधिरयन्न् आशाः खुराणां रवैर्
वातं संयति खञ्जयन् जवजयैः स्तोत्ट्न् गुणैर् मूकयन् ।
धर्माराधनसन्नियुक्तजगता राज्ञाम् उनाधिष्ठितः
सान्द्रोत्फालमिषाद् विगायति पदा स्प्रष्टुं तुरङ्गो’पि गाम् ॥१४९४॥
मूलम् - १४९४

तस्यैव । (न्च् १२।९९, स्व् २६०१, सू।मु। १०२।१०)
विश्वास-प्रस्तुतिः - १४९५
क्षौणी नः क्षितिपालमौलिमहिषी द्यौर् देवकीनन्दन
स्याङ्घ्रिः क्वाङ्घ्रिर् इहास्यताम् इति मनश् चिन्तानमत्कन्धरः ।
अङ्गान्य् अङ्गलतासु भङ्गुरखुरन्यासैः समावेशयन्न्
उत्क्रोशन्न् इव वारिधीन् अधिचलत्य् उच्चैस् तवायं हयः ॥१४९५॥
मूलम् - १४९५

आकाशपालीयशालूकस्य ।