विश्वास-प्रस्तुतिः - १४८६
भूर्भूदाररदाङ्कुरेण जलधेर् अन्तः पुरवोद्धृता
प्राग् एवाभ्रम् उ वल्लभस्य दशनैर् भिन्नो हिमानीगिरिः ।
इत्थं देव निजोष्मणा तव गजः क्षुण्णं वपुर् वीजयन्
कर्णाभ्यां करयन्त्रमुक्तमथुस्यन्दैर् अयं सिञ्चति ॥१४८६॥
मूलम् - १४८६

भट्टशालीयपीताम्बरस्य ।
विश्वास-प्रस्तुतिः - १४८७
एतद् देव यशस्करं नरपतेर् यत् तस्करे निग्रहो
दीर्घं जीव यथापराधमधुरं दण्डं जगत्य् आवहन् ।
येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस् त्वया
बद्धश् च प्रतिदण्डभैरवकरी क्षिप्तश् च कारागृहे ॥१४८७॥
मूलम् - १४८७

शुङ्गोकस्य ।
विश्वास-प्रस्तुतिः - १४८८
उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिताङ्गैः
प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदिङ्नागचक्रैः ।
आलोक्यालोक्य शैलान् उरुचरणरणच्छृङ्खलाघट्टयद्भिर्
यस्याशाभित्तिजेतुर् मदकलकरिभिः क्वापि न प्रापि रङ्गः ॥१४८८॥
मूलम् - १४८८

महानिधिकुमारस्य ।
विश्वास-प्रस्तुतिः - १४८९
अयम् अयम् असाव् आकर्ण्यारात् प्रतिद्विपडिण्डिमं
मदकलुषिते नेत्रे मार्जन्न् उदस्तकरार्गलः ।
अगणितसृणिः क्रोधस्तब्धायतश्रुतिपल्लवः
प्रविशति नृपस्यान्तःकक्षां जवाद् अरिम् उद्गरः ॥१४८९॥
मूलम् - १४८९

विरिञ्चेः ।
विश्वास-प्रस्तुतिः - १४९०
सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावधिश्यामिके
व्योमान्तःस्पृशि सिन्धुरे’स्य समरारम्भोद्धुरे धावति ।
जानीमो’नुपदप्रदोषतिमिरव्यामिश्रसन्ध्याधिये
वास्तं वान्ति समस्तबाहुजभुजातेजः सहस्रांशवः ॥१४९०॥
मूलम् - १४९०

कविपण्डितश्रीहर्षस्य । (न्च् १२।३६, सू।मु। १०१।८)