०२३ तेजः

विश्वास-प्रस्तुतिः - १४८१

शुष्यन्त्य् एव पयोधयो न मणयः कुर्युः पदं चेद् अधः
शुष्यत्य् अण्डम् अपीदम् अम्बुजभुवो मन्त्रा भवेयुर् न चेत् ।
किं चैते कणशः स्फुटन्ति गिरयो दध्युर् न चेद् औषधीस्
तेजोभिस् तव देव भूर् अपि भुजच्छायासु विश्राम्यति ॥१४८१॥

मूलम् - १४८१

हरेः ।

विश्वास-प्रस्तुतिः - १४८२

त्वत्तेजःसविता पितामहपुरीम् अध्यास्त यल्लीलया
यच् चक्रे भुजेन्द्रसद्मसु तमश् छेदं न तत्राद्भुतम् ।
चित्रं यत् परिपन्थिपार्थिवमुखाम्भोजान्य् अनुज्जागरी
कुर्वाणस् त्रिजगद्विलङ्घनपरो नास्ताचलं चुम्बति ॥१४८२॥

मूलम् - १४८२

श्रीकरस्य ।

विश्वास-प्रस्तुतिः - १४८३

पीत्वा सान्द्रतमं तमस् तिमिरहा देवः प्रसूते यमं
कालिन्दीं च शनैश्चरं च तिमिराहारानुसाराद् इव ।
तेजस् त्व् अस्य पुनर् विरोधिवसुधापालाङ्गनाकज्जलान्य्
आचामद्गुरुगर्भहूणतरुणीगण्डावदातं यशः ॥१४८३॥

मूलम् - १४८३

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - १४८४

एकं धाम शमीषु लीनम् अपरं सूर्योपलज्योतिषां
व्याजादद्रिषु गूढम् अन्यद् उदधौ सङ्गुप्तमौर्वायते ।
त्वत्तेजस्तपनांशुमांसलसमुत्तापेन दुर्गं भयाद्
वार्क्षं पार्वतम् औदकं यदि ययुस् तेजांसि किं पार्थिवाः ॥१४८४॥

मूलम् - १४८४

जयदेवस्य ।

विश्वास-प्रस्तुतिः - १४८५

व्योमन्य् उल्केत्य् अरण्ये दव इति बडवावह्निर् इत्य् अम्बुराशौ
पक्षेषु क्ष्माधराणां पविर् इति तडिद् इत्य् अम्बुवाहावलीषु ।
भालोत्सङ्गे पुरारेर् नयनम् इति पुनर् भाविकल्पान्तकाले
कालाग्निश् चेति देव त्रिजगति भवनस् तेजसः स्फूर्जितानि ॥१४८५॥

मूलम् - १४८५

शुभाङ्कस्य ।