विश्वास-प्रस्तुतिः - १७५१
घनसमयसरः क्व भृङ्गमालाः
स्मरसि तदा विहगाः क्व बन्धुवाचः ।
अकरुणा सहशोषिणी मृणाली
पुनर् अपि सेयम् अधस्त एव मूर्ध्नि ॥१७५१॥
मूलम् - १७५१
घनसमयसरः क्व भृङ्गमालाः
स्मरसि तदा विहगाः क्व बन्धुवाचः ।
अकरुणा सहशोषिणी मृणाली
पुनर् अपि सेयम् अधस्त एव मूर्ध्नि ॥१७५१॥
विरिञ्चेः ।
विश्वास-प्रस्तुतिः - १७५२
तीव्रार्कद्युतिदह्यमानवपुषा दावानलस्योष्मणा
शोषं दूरम् उपागतेन पथिक क्लेशान् मुहुर् मूर्च्छता ।
भ्राम्यद्दीनदृशा तृषातुरतया कौपीर् अपो’पीच्छता
मज्जद्दन्ति पतत्पतत्रि सुकृतैर् एतन् मयाप्तं सरः ॥१७५२॥
मूलम् - १७५२

क्षितीशस्य ।
विश्वास-प्रस्तुतिः - १७५३
आस्ताम् एव सरोवरेण्य भवतो दुग्धोदलब्धामृत
स्वादस्पर्धि सरोजवृन्दखचितं हंसावतंसं पयः ।
स्फारोल्लोलसुशीतशीकरचयासारप्रसिक्तानिल
स्पर्शैर् एव मनोहरैर् अपगताः सन्तापशोषक्लमाः ॥१७५३॥
मूलम् - १७५३

गोसोकस्य ।
विश्वास-प्रस्तुतिः - १७५४
यत् कूपेष्व् अपि दूरनिह्नुतपयोलेशेषु नीतं मनो
यत् खातेष्व् अपि पङ्कदुर्गसलिलस्तोकेषु दृष्टिः कृता ।
स्मेरोद्दण्डितपुण्डरीकम् असकृत्कल्लोललीलामयं
त्वाम् आसाद्य तडाग सम्प्रति स मे शान्तो निदाघज्वरः ॥१७५४॥
मूलम् - १७५४

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - १७५५
भेकैः कोटरशायिभिर् मृतम् इव क्ष्मान्तर्गतं कच्छपैः
पाठीनैस् तनुपङ्कपीठलुठनाद् यस्मिन् मुहुर् मूर्च्छितम् ।
तस्मिन्न् एव सरस्य् अकालजलदेनागत्य तच् चेष्टितं
येनाकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥१७५५॥
मूलम् - १७५५

छित्तपस्य । (ब्प् २०१, स्व् ८४३, दक्षिणात्यस्य; शा।प। ७७७, अकालजलदस्य; सु।र। १०५९, द्वन्दूकस्य)