०२१ सरः

विश्वास-प्रस्तुतिः - १७४१

मञ्जुस्वनाः शकुनयः सुभगो’वतारो
रम्यं च शाद्वलम् अधस् तटपादपानाम् ।
इत्य् आदि साधु सकलं कमलाकरस्य
किं त्व् आविलं जनितम् अम्बु नवोदकेन ॥१७४१॥

मूलम् - १७४१

मञ्जुस्वनाः शकुनयः सुभगो’वतारो
रम्यं च शाद्वलम् अधस् तटपादपानाम् ।
इत्य् आदि साधु सकलं कमलाकरस्य
किं त्व् आविलं जनितम् अम्बु नवोदकेन ॥१७४१॥

मङ्गलस्य ।

विश्वास-प्रस्तुतिः - १७४२

प्रतिविपिनम् अनिन्द्यस्वादुविस्फारवारि
प्रविचरदुरुपत्रिव्यूहनिर्वाहभाजः ।
कति न कति तडागाः सन्ति किन्त्व् अस्य हंस
प्रवर वहति कस् ते मानसस्य प्रतिष्ठाम् ॥१७४२॥

मूलम् - १७४२

प्रतिविपिनम् अनिन्द्यस्वादुविस्फारवारि
प्रविचरदुरुपत्रिव्यूहनिर्वाहभाजः ।
कति न कति तडागाः सन्ति किन्त्व् अस्य हंस
प्रवर वहति कस् ते मानसस्य प्रतिष्ठाम् ॥१७४२॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - १७४३

वारां धारणम् अध्वनीनविधुरच्छेदाय भृङ्गस्रजां
हर्षायाम्बुजसञ्चयः सितगरुत्प्रीत्यै मृणालग्रहः ।
का वा तस्य कथार्घितस्य सरसो यत् तीरजन्माप्य् असौ
दूराद् एव दृशोः श्रमं हरति नः स्निग्धावलोकस् तरुः ॥१७४३॥

मूलम् - १७४३

वारां धारणम् अध्वनीनविधुरच्छेदाय भृङ्गस्रजां
हर्षायाम्बुजसञ्चयः सितगरुत्प्रीत्यै मृणालग्रहः ।
का वा तस्य कथार्घितस्य सरसो यत् तीरजन्माप्य् असौ
दूराद् एव दृशोः श्रमं हरति नः स्निग्धावलोकस् तरुः ॥१७४३॥

वैद्यगदाधरस्य ।

विश्वास-प्रस्तुतिः - १७४४

अमीषाम् उष्णांशोः किरणनिकराणां परिचयात्
सरस् तीक्ष्णं मा भूस् तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्य् एते कतिपयपयोबिन्दुरसिकान्
निरस्यन्तः पान्थांस् त्वयि किम् अपि शोषं विदधति ॥१७४४॥

मूलम् - १७४४

अमीषाम् उष्णांशोः किरणनिकराणां परिचयात्
सरस् तीक्ष्णं मा भूस् तव किल निसर्गः शिशिरिमा ।
दुरात्मानो ह्य् एते कतिपयपयोबिन्दुरसिकान्
निरस्यन्तः पान्थांस् त्वयि किम् अपि शोषं विदधति ॥१७४४॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १७४५

सलीलं हंसानां पिबति निवहो यत्र विमलं
जलं मोहात् तस्मिन् सरसि रुचिरे चातकयुवा ।
स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः
किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥१७४५॥

मूलम् - १७४५

सलीलं हंसानां पिबति निवहो यत्र विमलं
जलं मोहात् तस्मिन् सरसि रुचिरे चातकयुवा ।
स्वभावाद् गर्वाद् वा न पिबति पयस् तस्य शकुनैः
किम् एतेनोच्चैस् त्वं भवति लघिमा वापि सरसः ॥१७४५॥

शकटीयशवरस्य । (सु।र। १०७०, कस्यचित्)