०२० नदनद्यौ

विश्वास-प्रस्तुतिः - १७३६

केनेयं श्रीव्यसनरुचिना शोण विश्राणिता ते
जाने जानुद्वयसजल एवाभिरामस् त्वम् आसीः ।
वेगभ्रश्यत्तटरुहवनो दुस्तरावर्तवीचिः
कस्येदानीं कलुषसलिलः कूलभेदी प्रियो’सि ॥१७३६॥

मूलम् - १७३६

शतानन्दस्य । (सु।र। १५०९)

विश्वास-प्रस्तुतिः - १७३७

आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः
कल्लोलाः क्षणभङ्गुराश् च सहसा नीताः पराम् उन्नतिम् ।
अन्तः प्रस्तरसङ्ग्रहो बहिर् अपि भ्रश्यन्ति गन्धद्रुमा
भ्रातः शोण न सो’स्ति यो न हसति त्वत्सम्पदां विप्लवे ॥१७३७॥

मूलम् - १७३७

अमरसिंहस्य । (शा।प। ११२२, सू।मु। ३०।५, सु।र। १०२८)

विश्वास-प्रस्तुतिः - १७३८

कतिपयदिवसस्थायिनि
मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं
जन्मैव यथा वृथा भवति ॥१७३८॥

मूलम् - १७३८

कतिपयदिवसस्थायिनि
मदकारिणि यौवने दुरात्मानः ।
विदधति तथापराधं
जन्मैव यथा वृथा भवति ॥१७३८॥

भोजदेवस्य । (शा।प। ११२४, सू।मु। ३०।२, सु।र। १११०)

विश्वास-प्रस्तुतिः - १७३९

नेत्रायातपथव्यतीतपयसः सन्त्य् एव नद्यः शतं
प्रायश्चित्तम् उपाचरन्ति कृतिनः स्पृष्ट्वैव यासां पयः ।
या दृष्टैव पुनाति विश्वम् अखिलं सेयम् अपुनर् जाह्नवी
विच्छिन्ना क्वचिद् आविला क्वचिद् अतिस्वल्पाम्बुशोच्या क्वचित् ॥१७३९॥

मूलम् - १७३९

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १७४०

प्रशान्ताः कल्लोलाः स्तिमितमसृणं वारि विमलं
विनीतो’यं वेशः शमम् इव नदीनां कथयति ।
तथाप्य् आसां तैस् तैस् तरुभिर् अभितस् तीरपतितैः
स एवाग्रे बुद्धौ परिणमति रुद्धो’प्य् अविनयः ॥१७४०॥

मूलम् - १७४०

कस्यचित् । (सू।मु। ३०।४, सु।र। ११११, शब्दार्णवस्य)