विश्वास-प्रस्तुतिः - १७२६
कथय किम् इदं जात्या ख्यातं किम् अस्य वराटकैः
कतिभिर् अथवा लभ्यं चैतत् प्रयोजनम् अस्य किम् ।
प्रतिपदम् इति ग्रामीणानां गणेन लघूकृतं
बत करतले रत्नं कृत्वा विषीदति वाणिजः ॥१७२६॥
मूलम् - १७२६

वैद्यगदाधरस्य ।
विश्वास-प्रस्तुतिः - १७२७
स्फटिकशकलः किं वा नेयं शिला किम् उ सैन्धवी
किम् इति विहितस्तम्भो न स्याद् अयं करकोपलः ।
इति कथाम् इह ग्रामीणानाम् अकाण्डविकल्पनैः
शशधरमणे यास्यन्त्य् एते विडम्बनवासराः ॥१७२७॥
मूलम् - १७२७

जलचन्द्रस्य ।
विश्वास-प्रस्तुतिः - १७२८
आघ्रातं परिचुम्बितं प्रतिमुहुर् लीढं च यच् चर्वितं
क्षिप्तं वा यदि नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
हे माणिक्य तवैतद् एव कुशलं शाखामृगेणामुना
यत् त्वं तत्त्वनिरूपणव्यसनिना चूर्णीकृतं नाश्मना ॥१७२८॥
मूलम् - १७२८

दूनोकस्य । (कुवल्, १५३)
विश्वास-प्रस्तुतिः - १७२९
जठरपिठरीम् अन्ये वारान्निधेर् अधिशेरते
कठिनमणयो येषां छायाकलापजितं जगत् ।
त्रिजगति पुनः को’यं कोलाहलः कमलापति
प्रणयसुहृदो रत्नस्योच्चैर् अहो सदुपग्रहः ॥१७२९॥
मूलम् - १७२९

गोपोकस्य ।
विश्वास-प्रस्तुतिः - १७३०
अये मुक्तारत्न प्रसर बहिर् उद्द्योतय गृहान्
अपि क्षोणीन्द्राणां कुरु फलवतः स्वान् अपि गुणान् ।
किम् अत्रैवात्मानं जरयसि मुधा शुक्तिकुहरे
महागम्भीरो’यं जलधिर् इह कस् त्वां गणयति ॥१७३०॥
मूलम् - १७३०

मुरारेः । (सु।र। १०१९)