०१८ अतिदानम्

विश्वास-प्रस्तुतिः - १४५६

कूजत्कोकिलकाकलीश्रुतिसुखी निद्राति कल्पद्रुमस्
तृप्ता बालतृणेन कामसुरभी रोमन्थम् अभ्यस्यति ।
दातुं नाथ सदा समीहितफलं लग्नो’सि नेत्रे’र्थिनां
बद्धस् तर्हि चिराय रोहणगिरेष् टङ्कव्रणेर् अङ्कुरः ॥१४५६॥

मूलम् - १४५६

कामदेवस्य ।

विश्वास-प्रस्तुतिः - १४५७

अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः
सत्यस्मिन्न् अतिदानभाजि कथम् अप्य् आस्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसम्पदुदयोदग्रः कथं याचक
श्रेणीवर्जनदुर्यशोनिविडितव्रीडस् तु रत्नाचलः ॥१४५७॥

मूलम् - १४५७

श्रीहर्षस्य । (न्च् १२।६७, स्व् २५१७)

विश्वास-प्रस्तुतिः - १४५८

जाने विक्रमवर्धन त्वयि धनं विश्राणयत्य् अर्थिनां
भावी शोण इवोपलैर् उपचितो रत्नैर् अगाधो’म्बुधिः ।
उत्पश्यामि च रोहणैर् मणिभरैर् बाष्पायमाणोदरः
पाकोत्पीडितदाडिमीफलदृशां कैश्चिद् दिनैर् यास्यति ॥१४५८॥

मूलम् - १४५८

डिम्बोकस्य । (सु।र। १४३७)

विश्वास-प्रस्तुतिः - १४५९

भ्रातश् चक्र व्यपनय शुचं प्रेयसीविप्रयोगाद्
आधिव्याधिर् न खलु रजनीं प्राप्य भावी पुनस् ते ।
दानैर् नान्यः कलय कुरुते काञ्चनाद्रेः समाप्तिर्
भाविन्य् अस्मद्दिनकतिपयैर् वासराद्वैतसिद्धिः ॥१४५९॥

मूलम् - १४५९

सागरस्य ।

विश्वास-प्रस्तुतिः - १४६०

अन्विष्यद्भिर् अयं चिरात् कथम् अपि प्रार्थ्येत यद्य् अर्थिभिर्
नाथ त्वं पुनर् अर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि ।
प्राप्तौ चिन्तितमात्रकं ददद् असौ चिन्तातिरिक्तप्रदं
त्वाम् आलोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ॥१४६०॥

मूलम् - १४६०

छित्तिपस्य ।