०१७ दरिद्रभरणम्

विश्वास-प्रस्तुतिः - १४५१

येषां वेशमसु कम्बुकर्परचलत्तर्कुध्वनिर् दुःश्रवः
प्राग् आसीन् नरनाथ सम्प्रति पुनस् तेषां तवानुग्रहात् ।
षड्जादिक्रमरङ्गदङ्गुलिचलत्पाणिस्खलत्कङ्कण
श्रेणीनिस्वनमांसलः कलगिरां वीणारवः श्रूयते ॥१४५१॥

मूलम् - १४५१

भासोकस्य । (सु।र। १३९४, कस्यचित्)

विश्वास-प्रस्तुतिः - १४५२

कर्पासास्थिप्रचयनिचिता निर्धनश्रोत्रियाणां
येषां वात्याप्रविततकुटीप्राङ्गणान्ता बभूवुः ।
तत्सौधानां परिसरभुवि त्वत्प्रसादाद् इदानीं
क्रीडायुद्धच्छिदुरयुवतीहारमुक्ताः पतन्ति ॥१४५२॥

मूलम् - १४५२

शुभाङ्कस्य । (सु।र। १३९०)

विश्वास-प्रस्तुतिः - १४५३

बालास् तालमहीरुहो घनदलस्निग्धा गृहप्राङ्गणे
सूक्ष्मेभ्यस् तव सन्दिशन्ति सुचिरं जीव प्रसन्ने त्वयि ।
कर्णालङ्कृतकेन कोमलदलं मुञ्चन्ति नो निर्दया
निःस्वश्रोत्रियवल्लभाः श्रुतियुगे हैमस्फुरत्कुण्डलाः ॥१४५३॥

मूलम् - १४५३

उमापतेः ।

विश्वास-प्रस्तुतिः - १४५४

उच्छिद्राणि दिगम्बरस्य वसनान्य् अर्धाङ्गिनास्वामिनो
रत्नालङ्कृतिभिर् विशोषितवपुःशोभाशतं सुभ्रुवः ।
पौराढ्याश् च पुरीः श्मशानवसतेर् भिक्षाभुजो’प्य् अक्षमा
लक्ष्मीं न व्यतनोद् दरिद्रभरणेष्व् अज्ञो हि सेनान्वयः ॥१४५४॥

मूलम् - १४५४

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - १४५५

मुक्ताः कार्पासबीजैर् मरकतशकलं शाकपत्रैर् अलावू
पुष्पै रूप्याणि रत्नं परिणतिभिदुरैः कुक्षिभिर् दाडिमीनाम् ।
कुष्माण्डीवल्लरीणां विकसितकुसुमैः काञ्चनं नागरीभिः
शिक्ष्यन्ते त्वत्प्रसादाद् बहुविभवजुषां योषितः श्रोत्रियाणाम् ॥१४५५॥

मूलम् - १४५५

तस्यैव ।