विश्वास-प्रस्तुतिः - १४४१
भूपालाः शशिभास्करान्वयभुवः के नाम नासादिता
भर्तारं पुनर् एकम् एव हि भुवस् त्वाम् एव मन्यामहे ।
येनाङ्गं परिमृद्य कुन्तलम् अपाकृष्य व्युदस्यायतं
चोलं प्राप्य च मध्यदेशम् अचिरात् काञ्च्यां करः पातितः ॥१४४१॥
मूलम् - १४४१

विद्यायाः ।
विश्वास-प्रस्तुतिः - १४४२
हेलानिर्जितकामरूप सहसा कृत्वाकुलान् कुन्तलांश्
चोलध्वंसनम् अङ्गमर्दनम् अपि द्राग् एव सम्पाद्यते ।
निर्जित्यैव च मध्यदेशम् अचिरात् काञ्च्यां करः पातितो
नित्वैवं वशतां प्रियेण भवताभीकेन भूर् भुज्यते ॥१४४२॥
मूलम् - १४४२

शब्दार्णवस्य ।
विश्वास-प्रस्तुतिः - १४४३
देव त्वं किल कुन्तलग्रहरुचिः काञ्चीम् अपासारयन्
क्षिप्तः क्षिप्तकरग्रहः प्रहणनं प्रारब्धम् अङ्गेष्व् अपि ।
इत्य् आकूतजुषस् तव स्तवकृता वैतालिकेनोदिते
लज्जन्ते प्रमदाः परस्परम् अभिप्रेक्ष्यारयो बिभ्यति ॥१४४३॥
मूलम् - १४४३

कस्यचित् । (सु।र। १४३०)
विश्वास-प्रस्तुतिः - १४४४
भ्रूक्षेपाद् गौडलक्ष्मीं जयति विजयते केलिमात्रात् कलिङ्गांश्
चेतश् चेदिक्षितीन्दोस् तपति वितपते सूर्यवद् दुर्जनेष ।
स्वेच्छान् म्लेच्छान् विनाशं नयति विनयते कामरूपाभिमानं
काशीभर्तुः प्रकाशं हरति विहरते मूर्ध्नि यो मागधस्य ॥१४४४॥
मूलम् - १४४४

शरणदेवस्य ।
विश्वास-प्रस्तुतिः - १४४५
त्वं चोलोल्लोललीलां कलयसि कुरुषे कर्षणं कुन्तलानां
त्वं काञ्चिन्यञ्चनाय प्रभवति रभसाद् अङ्गसङ्गं करोषि ।
इत्थं राजेन्द्र वन्दिस्तुतिभिर् उपहितोत्कम्पम् एवाद्य दीर्घं
नारीणाम् अप्य् अरीणां हृदयम् उदयते त्वत्पदाराधनाय ॥१४४५॥
मूलम् - १४४५

जयदेवस्य ।